व्यास उवाच 001
युधिष्ठिर महाबाहो यदाह कुरुनन्दनः 001a
धृतराष्ट्रो महात्मा त्वां तत्कुरुष्वाविचारयन् 001c
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः 002a
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम 002c
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी 003a
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् 003c
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः 004a
अनुज्ञां लभतां राजा मा वृथेह मरिष्यति 004c
राजर्षीणां पुराणानामनुयातु गतिं नृपः 005a
राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः 005c
वैशम्पायन उवाच 006
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा 006a
प्रत्युवाच महातेजा धर्मराजो युधिष्ठिरः 006c
भगवानेव नो मान्यो भगवानेव नो गुरुः 007a
भगवानस्य राज्यस्य कुलस्य च परायणम् 007c
अहं तु पुत्रो भगवान्पिता राजा गुरुश्च मे 008a
निदेशवर्ती च पितुः पुत्रो भवति धर्मतः 008c
इत्युक्तः स तु तं प्राह व्यासो धर्मभृतां वरः 009a
युधिष्ठिरं महातेजाः पुनरेव विशां पते 009c
एवमेतन्महाबाहो यथा वदसि भारत 010a
राजायं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः 010c
सोऽयं मयाभ्यनुज्ञातस्त्वया च पृथिवीपते 011a
करोतु स्वमभिप्रायं मास्य विघ्नकरो भव 011c
एष एव परो धर्मो राजर्षीणां युधिष्ठिर 012a
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् 012c
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता 013a
शिष्यभूतेन राजायं गुरुवत्पर्युपासितः 013c
क्रतुभिर्दक्षिणावद्भिरन्नपर्वतशोभितैः 014a
महद्भिरिष्टं भोगाश्च भुक्ताः पुत्राश्च पालिताः 014c
पुत्रसंस्थं च विपुलं राज्यं विप्रोषिते त्वयि 015a
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु 015c
त्वया चायं नरव्याघ्र गुरुशुश्रूषया नृपः 016a
आराधितः सभृत्येन गान्धारी च यशस्विनी 016c
अनुजानीहि पितरं समयोऽस्य तपोविधौ 017a
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर 017c
एतावदुक्त्वा वचनमनुज्ञाप्य च पार्थिवम् 018a
तथास्त्विति च तेनोक्तः कौन्तेयेन ययौ वनम् 018c
गते भगवति व्यासे राजा पाण्डुसुतस्ततः 019a
प्रोवाच पितरं वृद्धं मन्दं मन्दमिवानतः 019c
यदाह भगवान्व्यासो यच्चापि भवतो मतम् 020a
यदाह च महेष्वासः कृपो विदुर एव च 020c
युयुत्सुः सञ्जयश्चैव तत्कर्तास्म्यहमञ्जसा 021a
सर्वे ह्येतेऽनुमान्या मे कुलस्यास्य हितैषिणः 021c
इदं तु याचे नृपते त्वामहं शिरसा नतः 022a
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति 022c