धृतराष्ट्र उवाच 001
स्पृश मां पाणिना भूयः परिष्वज च पाण्डव 001a
जीवामीव हि संस्पर्शात्तव राजीवलोचन 001c
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप 002a
पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम 002c
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे 003a
येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् 003c
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता 004a
ततो ग्लानमनास्तात नष्टसञ्ज्ञ इवाभवम् 004c
तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो 005a
लब्ध्वा सञ्जीवितोऽस्मीति मन्ये कुरुकुलोद्वह 005c
वैशम्पायन उवाच 006
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत 006a
पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा 006c
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः 007a
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्या जिघ्रत पाण्डवम् 007c
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् 008a
अतिदुःखाच्च राजानं नोचुः किञ्चन पाण्डवाः 008c
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् 009a
दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् 009c
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः 010a
नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् 010c
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् 011a
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ 011c
ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः 012a
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि 012c
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् 013a
सर्वेषामवरोधानामार्तनादो महानभूत् 013c
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् 014a
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् 014c
धर्मपुत्रः स पितरं परिष्वज्य महाभुजः 015a
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् 015c
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा 016a
यथा तव प्रियं राजंश्चिकीर्षामि परन्तप 016c
यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा 017a
क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् 017c
ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः 018a
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये 018c
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् 019a
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् 019c