युधिष्ठिर उवाच 001
न मां प्रीणयते राज्यं त्वय्येवं दुःखिते नृप 001a
धिङ्मामस्तु सुदुर्बुद्धिं राज्यसक्तं प्रमादिनम् 001c
योऽहं भवन्तं दुःखार्तमुपवासकृशं नृप 002a
यताहारं क्षितिशयं नाविन्दं भ्रातृभिः सह 002c
अहोऽस्मि वञ्चितो मूढो भवता गूढबुद्धिना 003a
विश्वासयित्वा पूर्वं मां यदिदं दुःखमश्नुथाः 003c
किं मे राज्येन भोगैर्वा किं यज्ञैः किं सुखेन वा 004a
यस्य मे त्वं महीपाल दुःखान्येतान्यवाप्तवान् 004c
पीडितं चापि जानामि राज्यमात्मानमेव च 005a
अनेन वचसा तुभ्यं दुःखितस्य जनेश्वर 005c
भवान्पिता भवान्माता भवान्नः परमो गुरुः 006a
भवता विप्रहीणा हि क्व नु तिष्ठामहे वयम् 006c
औरसो भवतः पुत्रो युयुत्सुर्नृपसत्तम 007a
अस्तु राजा महाराज यं चान्यं मन्यते भवान् 007c
अहं वनं गमिष्यामि भवान्राज्यं प्रशास्त्विदम् 008a
न मामयशसा दग्धं भूयस्त्वं दग्धुमर्हसि 008c
नाहं राजा भवान्राजा भवता परवानहम् 009a
कथं गुरुं त्वां धर्मज्ञमनुज्ञातुमिहोत्सहे 009c
न मन्युर्हृदि नः कश्चिद्दुर्योधनकृतेऽनघ 010a
भवितव्यं तथा तद्धि वयं ते चैव मोहिताः 010c
वयं हि पुत्रा भवतो यथा दुर्योधनादयः 011a
गान्धारी चैव कुन्ती च निर्विशेषे मते मम 011c
स मां त्वं यदि राजेन्द्र परित्यज्य गमिष्यसि 012a
पृष्ठतस्त्वानुयास्यामि सत्येनात्मानमालभे 012c
इयं हि वसुसम्पूर्णा मही सागरमेखला 013a
भवता विप्रहीणस्य न मे प्रीतिकरी भवेत् 013c
भवदीयमिदं सर्वं शिरसा त्वां प्रसादये 014a
त्वदधीनाः स्म राजेन्द्र व्येतु ते मानसो ज्वरः 014c
भवितव्यमनुप्राप्तं मन्ये त्वां तज्जनाधिप 015a
दिष्ट्या शुश्रूषमाणस्त्वां मोक्ष्यामि मनसो ज्वरम् 015c
धृतराष्ट्र उवाच 016
तापस्ये मे मनस्तात वर्तते कुरुनन्दन 016a
उचितं हि कुलेऽस्माकमरण्यगमनं प्रभो 016c
चिरमस्म्युषितः पुत्र चिरं शुश्रूषितस्त्वया 017a
वृद्धं मामभ्यनुज्ञातुं त्वमर्हसि जनाधिप 017c
वैशम्पायन उवाच 018
इत्युक्त्वा धर्मराजानं वेपमानः कृताञ्जलिम् 018a
उवाच वचनं राजा धृतराष्ट्रोऽम्बिकासुतः 018c
सञ्जयं च महामात्रं कृपं चापि महारथम् 019a
अनुनेतुमिहेच्छामि भवद्भिः पृथिवीपतिम् 019c
ग्लायते मे मनो हीदं मुखं च परिशुष्यति 020a
वयसा च प्रकृष्टेन वाग्व्यायामेन चैव हि 020c
इत्युक्त्वा स तु धर्मात्मा वृद्धो राजा कुरूद्वहः 021a
गान्धारीं शिश्रिये धीमान्सहसैव गतासुवत् 021c
तं तु दृष्ट्वा तथासीनं निश्चेष्टं कुरुपार्थिवम् 022a
आर्तिं राजा ययौ तूर्णं कौन्तेयः परवीरहा 022c
युधिष्ठिर उवाच 023
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् 023a
सोऽयं नारीमुपाश्रित्य शेते राजा गतासुवत् 023c
आयसी प्रतिमा येन भीमसेनस्य वै पुरा 024a
चूर्णीकृता बलवता स बलार्थी श्रितः स्त्रियम् 024c
धिगस्तु मामधर्मज्ञं धिग्बुद्धिं धिक्च मे श्रुतम् 025a
यत्कृते पृथिवीपालः शेतेऽयमतथोचितः 025c
अहमप्युपवत्स्यामि यथैवायं गुरुर्मम 026a
यदि राजा न भुङ्क्तेऽयं गान्धारी च यशस्विनी 026c
वैशम्पायन उवाच 027
ततोऽस्य पाणिना राजा जलशीतेन पाण्डवः 027a
उरो मुखं च शनकैः पर्यमार्जत धर्मवित् 027c
तेन रत्नौषधिमता पुण्येन च सुगन्धिना 028a
पाणिस्पर्शेन राज्ञस्तु राजा सञ्ज्ञामवाप ह 028c