धृतराष्ट्र उवाच 001
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः 001a
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः 001c
योऽहं दुष्टमतिं मूढं ज्ञातीनां भयवर्धनम् 002a
दुर्योधनं कौरवाणामाधिपत्येऽभ्यषेचयम् 002c
यच्चाहं वासुदेवस्य वाक्यं नाश्रौषमर्थवत् 003a
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः 003c
पुत्रस्नेहाभिभूतश्च हितमुक्तो मनीषिभिः 004a
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च 004c
पदे पदे भगवता व्यासेन च महात्मना 005a
सञ्जयेनाथ गान्धार्या तदिदं तप्यतेऽद्य माम् 005c
यच्चाहं पाण्डुपुत्रेण गुणवत्सु महात्मसु 006a
न दत्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् 006c
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः 007a
एतच्छ्रेयः स परमममन्यत जनार्दनः 007c
सोऽहमेतान्यलीकानि निवृत्तान्यात्मनः सदा 008a
हृदये शल्यभूतानि धारयामि सहस्रशः 008c
विशेषतस्तु दह्यामि वर्षं पञ्चदशं हि वै 009a
अस्य पापस्य शुद्ध्यर्थं नियतोऽस्मि सुदुर्मतिः 009c
चतुर्थे नियते काले कदाचिदपि चाष्टमे 010a
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम 010c
करोत्याहारमिति मां सर्वः परिजनः सदा 011a
युधिष्ठिरभयाद्वेत्ति भृशं तप्यति पाण्डवः 011c
भूमौ शये जप्यपरो दर्भेष्वजिनसंवृतः 012a
नियमव्यपदेशेन गान्धारी च यशस्विनी 012c
हतं पुत्रशतं शूरं सङ्ग्रामेष्वपलायिनम् 013a
नानुतप्यामि तच्चाहं क्षत्रधर्मं हि तं विदुः 013c
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः 013e
भद्रं ते यादवीमातर्वाक्यं चेदं निबोध मे 014a
सुखमस्म्युषितः पुत्र त्वया सुपरिपालितः 014c
महादानानि दत्तानि श्राद्धानि च पुनः पुनः 015a
प्रकृष्टं मे वयः पुत्र पुण्यं चीर्णं यथाबलम् 015c
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् 015e
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः 016a
समतीता नृशंसास्ते धर्मेण निहता युधि 016c
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन 017a
सर्वे शस्त्रजिताल्ँलोकान्गतास्तेऽभिमुखं हताः 017c
आत्मनस्तु हितं मुख्यं प्रतिकर्तव्यमद्य मे 018a
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि 018c
त्वं हि धर्मभृतां श्रेष्ठः सततं धर्मवत्सलः 019a
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् 019c
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् 020a
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया 020c
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः 020e
उचितं नः कुले तात सर्वेषां भरतर्षभ 021a
पुत्रेष्वैश्वर्यमाधाय वयसोऽन्ते वनं नृप 021c
तत्राहं वायुभक्षो वा निराहारोऽपि वा वसन् 022a
पत्न्या सहानया वीर चरिष्यामि तपः परम् 022c
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि 023a
फलभाजो हि राजानः कल्याणस्येतरस्य वा 023c