वैशम्पायन उवाच 001
युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तथा 001a
नान्तरं ददृशू राजन्पुरुषाः प्रणयं प्रति 001c
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् 002a
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः 002c
तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम् 003a
नामर्षयत राजेन्द्र सदैवातुष्टवद्धृदा 003c
अप्रकाशान्यप्रियाणि चकारास्य वृकोदरः 004a
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा 004c
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाकरोत् 005a
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः 005c
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःशासनावपि 006a
प्रोवाचाथ सुसंरब्धो भीमः स परुषं वचः 006c
अन्धस्य नृपतेः पुत्रा मया परिघबाहुना 007a
नीता लोकममुं सर्वे नानाशस्त्रात्तजीविताः 007c
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ 008a
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः 008c
ताविमौ चन्दनेनाक्तौ वन्दनीयौ च मे भुजौ 009a
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः 009c
एताश्चान्याश्च विविधाः शल्यभूता जनाधिपः 010a
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् 010c
सा च बुद्धिमती देवी कालपर्यायवेदिनी 011a
गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे 011c
ततः पञ्चदशे वर्षे समतीते नराधिपः 012a
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः 012c
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः 013a
श्वेताश्वो वाथ कुन्ती वा द्रौपदी वा यशस्विनी 013c
माद्रीपुत्रौ च भीमस्य चित्तज्ञावन्वमोदताम् 014a
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः किञ्चिदप्रियम् 014c
ततः समानयामास धृतराष्ट्रः सुहृज्जनम् 015a
बाष्पसन्दिग्धमत्यर्थमिदमाह वचो भृशम् 015c