वैशम्पायन उवाच 001
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः 001a
नापश्यत तदा किञ्चिदप्रियं पाण्डुनन्दने 001c
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु 002a
प्रीतिमानभवद्राजा धृतराष्ट्रोऽम्बिकासुतः 002c
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् 003a
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव 003c
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वह 004a
वैचित्रवीर्ये नृपतौ समाचरति नित्यदा 004c
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो नराधिपः 005a
गुरु वा लघु वा कार्यं गान्धारी च यशस्विनी 005c
तत्स राजा महाराज पाण्डवानां धुरन्धरः 006a
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा 006c
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः 007a
अन्वतप्यच्च संस्मृत्य पुत्रं मन्दमचेतसम् 007c
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः 008a
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् 008c
ब्राह्मणान्वाचयित्वा च हुत्वा चैव हुताशनम् 009a
आयुष्यं पाण्डुपुत्राणामाशास्ते स नराधिपः 009c
न तां प्रीतिं परामाप पुत्रेभ्यः स महीपतिः 010a
यां प्रीतिं पाण्डुपुत्रेभ्यः समवाप तदा नृपः 010c
ब्राह्मणानां च वृद्धानां क्षत्रियाणां च भारत 011a
तथा विट्शूद्रसङ्घानामभवत्सुप्रियस्तदा 011c
यच्च किञ्चित्पुरा पापं धृतराष्ट्रसुतैः कृतम् 012a
अकृत्वा हृदि तद्राजा तं नृपं सोऽन्ववर्तत 012c
यश्च कश्चिन्नरः किञ्चिदप्रियं चाम्बिकासुते 013a
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः 013c
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै 014a
उवाच दुष्कृतं किञ्चिद्युधिष्ठिरभयान्नरः 014c
धृत्या तुष्टो नरेन्द्रस्य गान्धारी विदुरस्तथा 015a
शौचेन चाजातशत्रोर्न तु भीमस्य शत्रुहन् 015c
अन्ववर्तत भीमोऽपि निष्टनन्धर्मजं नृपम् 016a
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः 016c
राजानमनुवर्तन्तं धर्मपुत्रं महामतिम् 017a
अन्ववर्तत कौरव्यो हृदयेन पराङ्मुखः 017c