वैशम्पायन उवाच 001
एवं सम्पूजितो राजा पाण्डवैरम्बिकासुतः 001a
विजहार यथापूर्वमृषिभिः पर्युपासितः 001c
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः 002a
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत 002c
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः 003a
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः 003c
मया चैव भवद्भिश्च मान्य एष नराधिपः 004a
निदेशे धृतराष्ट्रस्य यः स्थास्यति स मे सुहृत् 004c
विपरीतश्च मे शत्रुर्निरस्यश्च भवेन्नरः 004e
परिदृष्टेषु चाहःसु पुत्राणां श्राद्धकर्मणि 005a
ददातु राजा सर्वेषां यावदस्य चिकीर्षितम् 005c
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः 006a
ब्राह्मणेभ्यो महार्हेभ्यो ददौ वित्तान्यनेकशः 006c
धर्मराजश्च भीमश्च सव्यसाची यमावपि 007a
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया 007c
कथं नु राजा वृद्धः सन्पुत्रशोकसमाहतः 008a
शोकमस्मत्कृतं प्राप्य न म्रियेतेति चिन्त्यते 008c
यावद्धि कुरुमुख्यस्य जीवत्पुत्रस्य वै सुखम् 009a
बभूव तदवाप्नोतु भोगांश्चेति व्यवस्थिताः 009c
ततस्ते सहिताः सर्वे भ्रातरः पञ्च पाण्डवाः 010a
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने 010c
धृतराष्ट्रश्च तान्वीरान्विनीतान्विनये स्थितान् 011a
शिष्यवृत्तौ स्थितान्नित्यं गुरुवत्पर्यपश्यत 011c
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः 012a
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य वै 012c
एवं धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः 013a
भ्रातृभिः सहितो धीमान्पूजयामास तं नृपम् 013c