जनमेजय उवाच 001
प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः 001a
कथमासन्महाराजे धृतराष्ट्रे महात्मनि 001c
स हि राजा हतामात्यो हतपुत्रो निराश्रयः 002a
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी 002c
कियन्तं चैव कालं ते पितरो मम पूर्वकाः 003a
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि 003c
वैशम्पायन उवाच 004
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः 004a
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् 004c
धृतराष्ट्रमुपातिष्ठद्विदुरः सञ्जयस्तथा 005a
युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः 005c
पाण्डवाः सर्वकार्याणि सम्पृच्छन्ति स्म तं नृपम् 006a
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च 006c
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् 007a
पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः 007c
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे 007e
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत 008a
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः 008c
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि 008e
शयनानि महार्हाणि वासांस्याभरणानि च 009a
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः 009c
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् 009e
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत 010a
विदुरः सञ्जयश्चैव युयुत्सुश्चैव कौरवः 010c
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् 010e
स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् 011a
स च तस्मिन्महेष्वासः कृपः समभवत्तदा 011c
व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह 012a
कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् 012c
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च 013a
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् 013c
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि 014a
प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै 014c
अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा 015a
न च धर्मात्मजो राजा कदाचित्किञ्जिदब्रवीत् 015c
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः 016a
सर्वान्कामान्महातेजाः प्रददावम्बिकासुते 016c
आरालिकाः सूपकारा रागखाण्डविकास्तथा 017a
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा 017c
वासांसि च महार्हाणि माल्यानि विविधानि च 018a
उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः 018c
मैरेयं मधु मांसानि पानकानि लघूनि च 019a
चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा 019c
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः 020a
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा 020c
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी 021a
उलूपी नागकन्या च देवी चित्राङ्गदा तथा 021c
धृष्टकेतोश्च भगिनी जरासन्धस्य चात्मजा 022a
किङ्कराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा 022c
यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात् 023a
इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः 023c
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् 024a
सविशेषमवर्तन्त भीममेकं विना तदा 024c
न हि तत्तस्य वीरस्य हृदयादपसर्पति 025a
धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् 025c