जनमेजय उवाच 001
कोऽसौ नकुलरूपेण शिरसा काञ्चनेन वै 001a
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे 001c
वैशम्पायन उवाच 002
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् 002a
श्रूयतां नकुलो योऽसौ यथा वागस्य मानुषी 002c
श्राद्धं सङ्कल्पयामास जमदग्निः पुरा किल 003a
होमधेनुस्तमागाच्च स्वयं चापि दुदोह ताम् 003c
तत्क्षीरं स्थापयामास नवे भाण्डे दृढे शुचौ 004a
तच्च क्रोधः स्वरूपेण पिठरं पर्यवर्तयत् 004c
जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते 005a
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः 005c
तमाज्ञाय मुनिः क्रोधं नैवास्य चुकुपे ततः 006a
स तु क्रोधस्तमाहेदं प्राञ्जलिर्मूर्तिमान्स्थितः 006c
जितोऽस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः 007a
लोके मिथ्याप्रवादोऽयं यत्त्वयाऽस्मि पराजितः 007c
सोऽहं त्वयि स्थितो ह्यद्य क्षमावति महात्मनि 008a
बिभेमि तपसः साधो प्रसादं कुरु मे विभो 008c
जमदग्निरुवाच 009
साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः 009a
न ममापकृतं तेऽद्य न मन्युर्विद्यते मम 009c
यानुद्दिश्य तु सङ्कल्पः पयसोऽस्य कृतो मया 010a
पितरस्ते महाभागास्तेभ्यो बुध्यस्व गम्यताम् 010c
इत्युक्तो जातसन्त्रासः स तत्रान्तरधीयत 011a
पितॄणामभिषङ्गात्तु नकुलत्वमुपागतः 011c
स तान्प्रसादयामास शापस्यान्तो भवेदिति 012a
तैश्चाप्युक्तो यदा धर्मं क्षेप्स्यसे मोक्ष्यसे तदा 012c
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यानि चैव ह 013a
जुगुप्सन्परिधावन्स यज्ञं तं समुपासदत् 013c
धर्मपुत्रमथाऽऽक्षिप्य सक्तुप्रस्थेन तेन सः 014a
मुक्तः शापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः 014c
एवमेतत्तदा वृत्तं तस्य यज्ञे महात्मनः 015a
पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा 015c