जनमेजय उवाच 001
धर्मागतेन त्यागेन भगवन्सर्वमस्ति चेत् 001a
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि भाषितुम् 001c
ततोञ्छवृत्तेर्यद्वृत्तं सक्तुदाने फलं महत् 002a
कथितं मे महद्ब्रह्मंस्तथ्यमेतदसंशयम् 002c
कथं हि सर्वयज्ञेषु निश्चयः परमो भवेत् 003a
एतदर्हसि मे वक्तुं निखिलेन द्विजर्षभ 003c
वैशम्पायन उवाच 004
अत्राप्युदाहरन्तीममितिहासं पुरातनम् 004a
अगस्त्यस्य महायज्ञे पुरावृत्तमरिन्दम 004c
पुराऽगस्त्यो महातेजा दीक्षां द्वादशवार्षिकीम् 005a
प्रविवेश महाराज सर्वभूतहिते रतः 005c
तत्राग्निकल्पा होतार आसन्सत्रे महात्मनः 006a
मूलाहारा निराहाराः साश्मकुट्टा मरीचिपाः 006c
परिघृष्टिका वैघसिकाः सम्प्रक्षालास्तथैव च 007a
यतयो भिक्षवश्चात्र बभूवुः पर्यवस्थिताः 007c
सर्वे प्रत्यक्षधर्माणो जितक्रोधा जितेन्द्रियाः 008a
दमे स्थिताश्च ते सर्वे दम्भमोहविवर्जिताः 008c
वृत्ते शुद्धे स्थिता नित्यमिन्द्रियैश्चाप्यवाहिताः 009a
उपासते स्म तं यज्ञं भुञ्जानास्ते महर्षयः 009c
यथाशक्त्या भगवता तदन्नं समुपार्जितम् 010a
तस्मिन्सत्रे तु यत्किञ्चिदयोग्यं तत्र नाभवत् 010c
तथा ह्यनेकैर्मुनिभिर्महान्तः क्रतवः कृताः 010e
एवंविधेस्त्वगस्त्यस्य वर्तमाने महाध्वरे 011a
न ववर्ष सहस्राक्षस्तदा भरतसत्तम 011c
ततः कर्मान्तरे राजन्नगस्त्यस्य महात्मनः 012a
कथेयमभिनिर्वृत्ता मुनीनां भावितात्मनाम् 012c
अगस्त्यो यजमानोऽसौ ददात्यन्नं विमत्सरः 013a
न च वर्षति पर्जन्यः कथमन्नं भविष्यति 013c
सत्रं चेदं महद्विप्रा मुनेर्द्वादशवार्षिकम् 014a
न वर्षिष्यति देवश्च वर्षाण्येतानि द्वादश 014c
एतद्भवन्तः सञ्चिन्त्य महर्षेरस्य धीमतः 015a
अगस्त्यस्यातितपसः कर्तुमर्हन्त्यनुग्रहम् 015c
इत्येवमुक्ते वचने ततोऽगस्त्यः प्रतापवान् 016a
प्रोवाचेदं वचो वाग्मी प्रसाद्य शिरसा मुनीन् 016c
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 017a
चिन्तायज्ञं करिष्यामि विधिरेष सनातनः 017c
यदि द्वादशवर्षाणि न वर्षिष्यति वासवः 018a
व्यायामेनाऽऽहरिष्यामि यज्ञानन्यानतिव्रतान् 018c
बीजयज्ञो मयाऽयं वै बहुवर्षसमाचितः 019a
बीजैः कृतैः करिष्ये च नात्र विघ्नो भविष्यति 019c
नेदं शक्यं वृथा कर्तुं मम सत्रं कथञ्चन 020a
वर्षिष्यतीह वा देवो न वा देवो भविष्यति 020c
अथ वाऽभ्यर्थनामिन्द्रः कुर्यान्न त्विह कामतः 021a
स्वयमिन्द्रो भविष्यामि जीवयिष्यामि च प्रजाः 021c
यो यदाहारजातश्च स तथैव भविष्यति 022a
विशेषं चैव कर्ताऽस्मि पुनः पुनरतीव हि 022c
अद्येह स्वर्णमभ्येतु यच्चान्यद्वसु दुर्लभम् 023a
त्रिषु लोकेषु यच्चास्ति तदिहागच्छतां स्वयम् 023c
दिव्याश्चाप्सरसां सङ्घाः सगन्धर्वाः सकिन्नराः 024a
विश्वावसुश्च ये चान्ये तेऽप्युपासन्तु वः सदा 024c
उत्तरेभ्यः कुरुभ्यश्च यत्किञ्चिद्वसु विद्यते 025a
सर्वं तदिह यज्ञे मे स्वयमेवोपतिष्ठतु 025c
स्वर्गं स्वर्गसदश्चैव धर्मश्च स्वयमेव तु 025e
इत्युक्ते सर्वमेवैतदभवत्तस्य धीमतः 026a
ततस्ते मुनयो दृष्ट्वा मुनेस्तस्य तपोबलम् 026c
विस्मिता वचनं प्राहुरिदं सर्वे महार्थवत् 026e
प्रीताः स्म तव वाक्येन न त्विच्छामस्तपोव्ययम् 027a
स्वैरेव यज्ञैस्तुष्टाः स्मो न्यायेनेच्छामहे वयम् 027c
यज्ञान्दीक्षास्तथा होमान्यच्चान्यन्मृगयामहे 028a
तन्नोऽस्तु स्वकृतैर्यज्ञैर्नान्यतो मृगयामहे 028c
न्यायेनोपार्जिताहाराः स्वकर्मनिरता वयम् 029a
वेदांश्च ब्रह्मचर्येण न्यायतः प्रार्थयामहे 029c
न्यायेनोत्तरकालं च गृहेभ्यो निःसृता वयम् 030a
धर्मदृष्टैर्विधिद्वारैस्तपस्तप्स्यामहे वयम् 030c
भवतः सम्यगेषा हि बुद्धिर्हिंसाविवर्जिता 031a
एतामहिंसां यज्ञेषु ब्रूयास्त्वं सततं प्रभो 031c
प्रीतास्ततो भविष्यामो वयं द्विजवरोत्तम 032a
विसर्जिताः समाप्तौ च सत्रादस्माद्व्रजामहे 032c
वैशम्पायन उवाच 033
तथा कथयतामेव देवराजः पुरन्दरः 033a
ववर्ष सुमहातेजा दृष्ट्वा तस्य तपोबलम् 033c
असमाप्तौ च यज्ञस्य तस्यामितपराक्रमः 034a
निकामवर्षी देवेन्द्रो बभूव जनमेजय 034c
प्रसादयामास च तमगस्त्यं त्रिदशेश्वरः 035a
स्वयमभ्येत्य राजर्षे पुरस्कृत्य बृहस्पतिम् 035c
ततो यज्ञसमाप्तौ तान्विससर्ज महामुनीन् 036a
अगस्त्यः परमप्रीतः पूजयित्वा यथाविधि 036c