जनमेजय उवाच 001
यज्ञे सक्ता नृपतयस्तपःसक्ता महर्षयः 001a
शान्तिव्यवसिता विप्राः शमो दम इति प्रभो 001c
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह विद्यते 002a
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् 002c
यज्ञैरिष्ट्वा हि बहवो राजानो द्विजसत्तम 003a
इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमितो गताः 003c
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः 004a
देवराज्यं महातेजाः प्राप्तवानखिलं विभुः 004c
यथा युधिष्ठिरो राजा भीमार्जुनपुरःसरः 005a
सदृशो देवराजेन समृद्ध्या विक्रमेण च 005c
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् 006a
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः 006c
वैशम्पायन उवाच 007
यज्ञस्य विधिमग्र्यं वै फलं चैव नरर्षभ 007a
गदतः शृणु मे राजन्यथावदिह भारत 007c
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः 008a
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि 008c
हूयमाने तथा वह्नौ होत्रे बहुगुणान्विते 009a
देवेष्वाहूयमानेषु स्थितेषु परमर्षिषु 009c
सुप्रतीतैस्तदा विप्रैः स्वागमैः सुस्वनैर्नृप 010a
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा 010c
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ 011a
महर्षयो महाराज सम्बभूवुः कृपान्विताः 011c
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः 012a
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः 012c
अपविज्ञानमेतत्ते महान्तं धर्ममिच्छतः 013a
न हि यज्ञे पशुगणा विधिदृष्टाः पुरन्दर 013c
धर्मोपघातकस्त्वेष समारम्भस्तव प्रभो 014a
नायं धर्मकृतो धर्मो न हिंसा धर्म उच्यते 014c
आगमेनैव ते यज्ञं कुर्वन्तु यदि हेच्छसि 015a
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् 015c
यज बीजैः सहस्राक्ष त्रिवर्षपरमोषितैः 016a
एष धर्मो महाञ्शक्र चिन्त्यमानोऽधिगम्यते 016c
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः 017a
उक्तं न प्रतिजग्राह मानमोहवशानुगः 017c
तेषां विवादः सुमहाञ्जज्ञे शक्रमहर्षिणाम् 018a
जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत 018c
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः 019a
ततः सन्धाय शक्रेण पप्रच्छुर्नृपतिं वसुम् 019c
महाभाग कथं यज्ञेष्वागमो नृपते स्मृतः 020a
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरपि 020c
तच्छ्रुत्वा तु वचस्तेषामविचार्य बलाबलम् 021a
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः 021c
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् 022a
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः 022c
अन्यायोपगतं द्रव्यमतीतं यो ह्यपण्डितः 023a
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते 023c
धर्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा 024a
ददाति दानं विप्रेभ्यो लोकविश्वासकारकम् 024c
पापेन कर्मणा विप्रो धनं लब्ध्वा निरङ्कुशः 025a
रागमोहान्वितः सोऽन्ते कलुषां गतिमाप्नुते 025c
तेन दत्तानि दानानि पापेन हतबुद्धिना 026a
तानि सत्त्वमनासाद्य नश्यन्ति विपुलान्यपि 026c
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः 027a
दाने न कीर्तिर्भवति प्रेत्य चेह च दुर्मतेः 027c
अपि सञ्चयबुद्धिर्हि लोभमोहवशङ्गतः 028a
उद्वेजयति भूतानि हिंसया पापचेतनः 028c
एवं लब्ध्वा धनं लोभाद्यजते यो ददाति च 029a
स कृत्वा कर्मणा तेन न सिध्यति दुरागमात् 029c
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः 030a
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धर्मिणः 030c
एष धर्मो महांस्त्यागो दानं भूतदया तथा 031a
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा 031c
सनातनस्य धर्मस्य मूलमेतत्सनातनम् 031e
श्रूयन्ते हि पुरा विप्रा विश्वामित्रादयो नृपाः 032a
विश्वामित्रोऽसितश्चैव जनकश्च महीपतिः 032c
कक्षसेनार्ष्टिषेणौ च सिन्धुद्वीपश्च पार्थिवः 032e
एते चान्ये च बहवः सिद्धिं परमिकां गताः 033a
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः 033c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः 034a
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत 034c