नकुल उवाच 001
हन्त वो वर्तयिष्यामि दानस्य परमं फलम् 001a
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः 001c
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते 002a
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा 002c
सभार्यः सह पुत्रेण सस्नुषस्तपसि स्थितः 003a
वधूचतुर्थो वृद्धः स धर्मात्मा नियतेन्द्रियः 003c
षष्ठे काले तदा विप्रो भुङ्क्ते तैः सह सुव्रतः 004a
षष्ठे काले कदाचिच्च तस्याऽऽहारो न विद्यते 004c
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः 004e
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे 005a
नाविद्यत तदा विप्राः सञ्चयस्तान्निबोधत 005c
क्षीणौषधिसमावायो द्रव्यहीनोऽभवत्तदा 005e
काले कालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् 006a
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते 006c
उञ्छंस्तदा शुक्लपक्षे मध्यं तपति भास्करे 007a
उष्णार्तश्च क्षुधार्तश्च स विप्रस्तपसि स्थितः 007c
उञ्छमप्राप्तवानेव सार्धं परिजनेन ह 007e
स तथैव क्षुधाविष्टः स्पृष्ट्वा तोयं यथाविधि 008a
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः 008c
अथ षष्ठे गते काले यवप्रस्थमुपार्जयत् 009a
यवप्रस्थं च ते सक्तूनकुर्वन्त तपस्विनः 009c
कृतजप्याह्विकास्ते तु हुत्वा वह्निं यथाविधि 010a
कुडवं कुडवं सर्वे व्यभजन्त तपस्विनः 010c
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा 011a
ते तं दृष्ट्वाऽतिथिं तत्र प्रहृष्टमनसोऽभवन् 011c
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा 012a
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः 012c
अनसूयवो गतक्रोधाः साधवो गतमत्सराः 013a
त्यक्तमाना जितक्रोधा धर्मज्ञा द्विजसत्तमाः 013c
सब्रह्मचर्यं स्वं गोत्रं समाख्याय परस्परम् 014a
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा 014c
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ 015a
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो 015c
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजोत्तम 015e
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः 016a
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः 016c
स उञ्छवृत्तिः तं प्रेक्ष्य क्षुधापरिगतं द्विजम् 017a
आहारं चिन्तयामास कथं तुष्टो भवेदिति 017c
तस्य भार्याऽब्रवीद्राजन्मद्भागो दीयतामिति 018a
गच्छत्वेष यथाकामं सन्तुष्टो द्विजसत्तमः 018c
इति ब्रुवन्तीं तां साध्वीं धर्मात्मा स द्विजर्षभः 019a
क्षुधापरिगतां ज्ञात्वा सक्तूंस्तान्नाभ्यनन्दत 019c
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् 020a
त्वगस्थिभूतां वेपन्तीं ततो भार्यामुवाच ताम् 020c
अपि कीटपतङ्गानां मृगाणां चैव शोभने 021a
स्त्रियो रक्ष्याश्च पोष्याश्च नैवं त्वं वक्तुमर्हसि 021c
अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च 022a
प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् 022c
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज 023a
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे 023c
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः 024a
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजोत्तम 024c
ऋतुर्मातुः पितुर्बीजं दैवतं परमं पतिः 025a
भर्तुः प्रसादात्स्त्रीणां वै रतिः पुत्रफलं तथा 025c
पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणान्मम 026a
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्गृहाण मे 026c
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् 027a
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः 027c
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् 028a
द्विज सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम 028c
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः 029a
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् 029c
पुत्र उवाच 030
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम 030a
इत्येवं सुकृतं मन्ये तस्मादेतत्करोम्यहम् 030c
भवान्हि परिपाल्यो मे सर्वयत्नैर्द्विजोत्तम 031a
साधूनां काङ्क्षितं ह्येतत्पितुर्वृद्धस्य पोषणम् 031c
पुत्रार्थो विहितो ह्येष स्थाविर्ये परिपालनम् 032a
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु विश्रुता 032c
प्राणधारणमात्रेण शक्यं कर्तुं तपस्त्वया 033a
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् 033c
पितोवाच 034
अपि वर्षसहस्री त्वं बाल एव मतो मम 034a
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवत्युत 034c
बालानां क्षुद्बलवती जानाम्येतदहं विभो 035a
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक 035c
जीर्णेन वयसा पुत्र न मा क्षुद्बाधतेऽपि च 036a
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् 036c
पुत्र उवाच 037
अपत्यमस्मि ते पुत्रस्त्राणात्पुत्रो हि विश्रुतः 037a
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहाऽऽत्मना 037c
पितोवाच 038
रूपेण सदृशस्त्वं मे शीलेन च दमेन च 038a
परीक्षितश्च बहुधा सक्तूनादद्मि ते ततः 038c
इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः 039a
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा 039c
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह 040a
उञ्छवृत्तिस्तु सव्रीडो बभूव द्विजसत्तमः 040c
तं वै वधूः स्थिता साध्वी ब्राह्मणप्रियकाम्यया 041a
सक्तूनादाय संहृष्टा गुरुं तं वाक्यमब्रवीत् 041c
सन्तानात्तव सन्तानं मम विप्र भविष्यति 042a
सक्तूनिमानतिथये गृहीत्वा त्वं प्रयच्छ मे 042c
तव प्रसवनिर्वृत्या मम लोकाः किलाक्षयाः 043a
पौत्रेण तानवाप्नोति यत्र गत्वा न शोचति 043c
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च 044a
तथैव पुत्रपौत्राणां स्वर्गे त्रेता किलाक्षया 044c
पितॄंस्त्राणात्तारयति पुत्र इत्यनुशुश्रुम 045a
पुत्रपौत्रैश्च नियतं साधुलोकानुपाश्नुते 045c
श्वशुर उवाच 046
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै 046a
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् 046c
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः 047a
कल्याणवृत्ते कल्याणि नैवं त्वं वक्तुमर्हसि 047c
षष्ठे काले व्रतवतीं शीलशौचसमन्विताम् 048a
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं न्वहम् 048c
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया 049a
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी 049c
स्नुषोवाच 050
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् 050a
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे विभो 050c
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः 051a
तव विप्र प्रसादेन लोकान्प्राप्स्याम्यभीप्सितान् 051c
अवेक्ष्या इति कृत्वा त्वं दृढभक्त्येति वा द्विज 052a
चिन्त्या ममेयमिति वा सक्तूनादातुमर्हसि 052c
श्वशुर उवाच 053
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे 053a
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे 053c
तस्मात्सक्तून्ग्रहीष्यामि वधूर्नार्हसि वञ्चनाम् 054a
गणयित्वा महाभागे त्वं हि धर्मभृतां वरा 054c
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये 055a
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः 055c
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् 056a
वाग्मी तदा द्विजश्रेष्ठो धर्मः पुरुषविग्रहः 056c
शुद्धेन तव दानेन न्यायोपात्तेन यत्नतः 057a
यथाशक्ति विमुक्तेन प्रीतोऽस्मि द्विजसत्तम 057c
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः 058a
गगनात्पुष्पवर्षं च पश्यस्व पतितं भुवि 058c
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः 059a
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः 059c
ब्रह्मर्षयो विमानस्था ब्रह्मलोकगताश्च ये 060a
काङ्क्षन्ते दर्शनं तुभ्यं दिवं गच्छ द्विजर्षभ 060c
पितृलोकगताः सर्वे तारिताः पितरस्त्वया 061a
अनागताश्च बहवः सुबहूनि युगानि च 061c
ब्रह्मचर्येण यज्ञेन दानेन तपसा तथा 062a
अगह्वरेण धर्मेण तस्माद्गच्छ दिवं द्विज 062c
श्रद्धया परया यस्त्वं तपश्चरसि सुव्रत 063a
तस्माद्देवास्तवानेन प्रीता द्विजवरोत्तम 063c
सर्वस्वमेतद्यस्मात्ते त्यक्तं शुद्धेन चेतसा 064a
कृच्छ्रकाले ततः स्वर्गो जितोऽयं तव कर्मणा 064c
क्षुधा निर्णुदति प्रज्ञां धर्म्यां बुद्धिं व्यपोहति 065a
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह 065c
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् 066a
यदा दानरुचिर्भवति तदा धर्मो न सीदति 066c
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च 067a
धर्ममेव गुरुं ज्ञात्वा तृष्णा न गणिता त्वया 067c
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् 068a
कालः परतरो दानाच्छ्रद्धा चापि ततः परा 068c
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्मोहान्न दृश्यते 069a
स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् 069c
तत्तु पश्यन्ति पुरुषा जितक्रोधा जितेन्द्रियाः 070a
ब्राह्मणास्तपसा युक्ता यथाशक्तिप्रदायिनः 070c
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च 071a
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः 071c
रन्तिदेवो हि नृपतिरपः प्रादादकिञ्चनः 072a
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः 072c
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः 073a
न्यायलब्धैर्यथा सूक्ष्मैः श्रद्धापूतैः स तुष्यति 073c
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः 074a
एकां दत्त्वा स पारक्यां नरकं समवाप्तवान् 074c
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः 075a
प्राप्य पुण्यकृताल्ँलोकान्मोदते दिवि सुव्रतः 075c
विभवे न नृणां पुण्यं स्वशक्त्या स्वर्जितं सताम् 076a
न यज्ञैर्विविधैर्विप्र यथान्यायेन सञ्चितैः 076c
क्रोधो दानफलं हन्ति लोभात्स्वर्गं न गच्छति 077a
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते 077c
न राजसूयैर्बहुभिरिष्ट्वा विपुलदक्षिणैः 078a
न चाश्वमेधैर्बहुभिः फलं सममिदं तव 078c
सक्तुप्रस्थेन हि जितो ब्रह्मलोकस्त्वयाऽनघ 079a
विरजो ब्रह्मभवनं गच्छ विप्र यथेच्छकम् 079c
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् 080a
आरोहत यथाकामं धर्मोऽस्मि द्विज पश्य माम् 080c
पावितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते 081a
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज 081c
इत्युक्तवाक्यो धर्मेण यानमारुह्य स द्विजः 082a
सभार्यः ससुतश्चापि सस्नुषश्च दिवं ययौ 082c
तस्मिन्विप्रे गते स्वर्गं ससुते सस्नुषे तदा 083a
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् 083c
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च 084a
दिव्यपुष्पावमर्दाच्च साधोर्दानलवैश्च तैः 084c
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् 084e
तस्य सत्याभिसन्धस्य सूक्ष्मदानेन चैव ह 085a
शरीरार्धं च मे विप्राः शातकुम्भमयं कृतम् 085c
पश्यतेदं सुविपुलं तपसा तस्य धीमतः 085e
कथमेवंविधं मे स्यादन्यत्पार्श्वमिति द्विजाः 086a
तपोवनानि यज्ञांश्च हृष्टोऽभ्येमि पुनः पुनः 086c
यज्ञं त्वहमिमं श्रुत्वा कुरुराजस्य धीमतः 087a
आशया परया प्राप्तो न चाहं काञ्चनीकृतः 087c
ततो मयोक्तं तद्वाक्यं प्रहस्य द्विजसत्तमाः 088a
सक्तुप्रस्थेन यज्ञोऽयं सम्मितो नेति सर्वथा 088c
सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः 089a
न हि यज्ञो महानेष सदृशस्तैर्मतो मम 089c
वैशम्पायन उवाच 090
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा 090a
जगामादर्शनं राजन्विप्रास्ते च ययुर्गृहान् 090c
एतत्ते सर्वमाख्यातं मया परपुरञ्जय 091a
यदाश्चर्यमभूत्तस्मिन्वाजिमेधे महाक्रतौ 091c
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन 092a
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः 092c
अद्रोहः सर्वभूतेषु सन्तोषः शीलमार्जवम् 093a
तपो दमश्च सत्यं च दानं चेति समं मतम् 093c