जनमेजय उवाच 001
पितामहस्य मे यज्ञे धर्मपुत्रस्य धीमतः 001a
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति 001c
वैशम्पायन उवाच 002
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् 002a
अश्वमेधे महायज्ञे निवृत्ते यदभूद्विभो 002c
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु 003a
दीनान्धकृपणे चापि तदा भरतसत्तम 003c
घुष्यमाणे महादाने दिक्षु सर्वासु भारत 004a
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि 004c
बिलान्निष्क्रम्य नकुलो रुक्मपार्श्वस्तदाऽनघ 005a
वज्राशनिसमं नादममुञ्चत विशां पते 005c
सकृदुत्सृज्य तं नादं त्रासयानो मृगद्विजान् 006a
मानुषं वचनं प्राह धृष्टो बिलशयो महान् 006c
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः 007a
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः 007c
तस्य तद्वचनं श्रुत्वा नकुलस्य विशां पते 008a
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः 008c
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः 009a
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् 009c
किं बलं परमं तुभ्यं किं श्रुतं किं परायणम् 010a
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे 010c
अविलुप्याऽऽगमं कृत्स्नं विधिज्ञैर्याजकैः कृतम् 011a
यथागमं यथान्यायं कर्तव्यं च यथाकृतम् 011c
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रचक्षुषा 012a
मन्त्रपूतं हुतश्चाग्निर्दत्तं देयममत्सरम् 012c
तुष्टा द्विजर्षभाश्चात्र दानैर्बहुविधैरपि 013a
क्षत्रियाश्च सुयुद्धेन श्राद्धैरपि पितामहाः 013c
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः 014a
अनुक्रोशैस्तथा शूद्रा दानशेषैः पृथग्जनाः 014c
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः 015a
देवा हविर्भिः पुण्यैश्च रक्षणैः शरणागताः 015c
यदत्र तथ्यं तद्ब्रूहि सत्यसन्ध द्विजातिषु 016a
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया 016c
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च 017a
समागतश्च विप्रैस्त्वं तत्त्वतो वक्तुमर्हसि 017c
इति पृष्टो द्विजैस्तैः स प्रहस्य नकुलोऽब्रवीत् 018a
नैषानृता मया वाणी प्रोक्ता दर्पेण वा द्विजाः 018c
यन्मयोक्तमिदं किञ्चिद्युष्माभिश्चाप्युपश्रुतम् 019a
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः 019c
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः 019e
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजपुङ्गवाः 020a
शृणुताव्यग्रमनसः शंसतो मे द्विजर्षभाः 020c
अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम् 021a
उञ्छवृत्तेर्यथावृत्तं कुरुक्षेत्रनिवासिनः 021c
स्वर्गं येन द्विजः प्राप्तः सभार्यः ससुतस्नुषः 022a
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् 022c