वैशम्पायन उवाच 001
शमयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः 001a
तुरगं तं यथाशास्त्रमालभन्त द्विजातयः 001c
ततः सञ्ज्ञाप्य तुरगं विधिवद्याजकर्षभाः 002a
उपसंवेशयन्राजंस्ततस्तां द्रुपदात्मजाम् 002c
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् 002e
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजर्षभाः 003a
श्रपयामासुरव्यग्राः शास्त्रवद्भरतर्षभ 003c
तं वपाधूमगन्धं तु धर्मराजः सहानुजः 004a
उपाजिघ्रद्यथान्यायं सर्वपाप्मापहं तदा 004c
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप 005a
तान्यग्नौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः 005c
संस्थाप्यैवं तस्य राज्ञस्तं क्रतुं शक्रतेजसः 006a
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् 006c
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि 007a
कोटीसहस्रं निष्काणां व्यासाय तु वसुन्धराम् 007c
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः 008a
अब्रवीद्भरतश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 008c
पृथिवी भवतस्त्वेषा सन्न्यस्ता राजसत्तम 009a
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिनः 009c
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः 010a
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् 010c
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता 011a
अर्जुनेन जिता सेयमृत्विग्भ्यः प्रापिता मया 011c
वनं प्रवेक्ष्ये विप्रेन्द्रा विभजध्वं महीमिमाम् 012a
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः 012c
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः 013a
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः 013c
इत्युक्तवति तस्मिंस्ते भ्रातरो द्रौपदी च सा 014a
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् 014c
ततोऽन्तरिक्षे वागासीत्साधु साध्विति भारत 015a
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः 015c
द्वैपायनस्तथोक्तस्तु पुनरेव युधिष्ठिरम् 016a
उवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः 016c
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् 017a
हिरण्यं दीयतामेभ्यो द्विजातिभ्यो धरास्तु ते 017c
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् 018a
यथाऽऽह भगवान्व्यासस्तथा तत्कर्तुमर्हसि 018c
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह 019a
कोटिकोटिकृतां प्रादाद्दक्षिणां त्रिगुणां क्रतोः 019c
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः 020a
यत्कृतं कुरुसिंहेन मरुत्तस्यानुकुर्वता 020c
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनः प्रभुः 021a
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते 021c
पृथिव्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः 022a
धूतपाप्मा जितस्वर्गो मुमुदे भ्रातृभिः सह 022c
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तदा 023a
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथाबलम् 023c
यज्ञवाटे तु यत्किञ्चिद्धिरण्यमपि भूषणम् 024a
तोरणानि च यूपांश्च घटाः पात्रीस्तथेष्टकाः 024c
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः 024e
अनन्तरं ब्राह्मणेभ्यः क्षत्रिया जह्रिरे वसु 025a
तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः 025c
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः 025e
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् 026a
तर्पिता वसुना तेन धर्मराज्ञा महात्मना 026c
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादनात् 027a
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः 027c
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा 028a
चकार पुण्यं लोके तु सुमहान्तं पृथा तदा 028c
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह 029a
सभाज्यमानः शुशुभे महेन्द्रो दैवतैरिव 029c
पाण्डवाश्च महीपालैः समेतैः संवृतास्तदा 030a
अशोभन्त महाराज ग्रहास्तारागणैरिव 030c
राजभ्योऽपि ततः प्रादाद्रत्नानि विविधानि च 031a
गजानश्वानलङ्कारान्स्त्रियो वस्त्राणि काञ्चनम् 031c
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले 032a
विसृजञ्शुशुभे राजा यथा वैश्रवणस्तथा 032c
आनाय्य च तथा वीरं राजानं बभ्रुवाहनम् 033a
प्रदाय विपुलं वित्तं गृहान्प्रास्थापयत्तदा 033c
दुःशलायाश्च तं पौत्रं बालकं पार्थिवर्षभ 034a
स्वराज्ये पितृभिर्गुप्ते प्रीत्या समभिषेचयत् 034c
राज्ञश्चैवापि तान्सर्वान्सुविभक्तान्सुपूजितान् 035a
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः 035c
एवं बभूव यज्ञः स धर्मराजस्य धीमतः 036a
बह्वन्नधनरत्नौघः सुरामैरेयसागरः 036c
सर्पिःपङ्का ह्रदा यत्र बहवश्चान्नपर्वताः 037a
रसालाकर्दमाः कुल्या बभूवुर्भरतर्षभ 037c
भक्ष्यषाण्डवरागाणां क्रियतां भुज्यतामिति 038a
पशूनां वध्यतां चापि नान्तस्तत्र स्म दृश्यते 038c
मत्तोन्मत्तप्रमुदितं प्रगीतयुवतीजनम् 039a
मृदङ्गशङ्खशब्दैश्च मनोरममभूत्तदा 039c
दीयतां भुज्यतां चेति दिवारात्रमवारितम् 040a
तं महोत्सवसङ्काशमतिहृष्टजनाकुलम् 040c
कथयन्ति स्म पुरुषा नानादेशनिवासिनः 040e
वर्षित्वा धनधाराभिः कामै रत्नैर्धनैस्तथा 041a
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् 041c