वैशम्पायन उवाच 001
स प्रविश्य यथान्यायं पाण्डवानां निवेशनम् 001a
पितामहीमभ्यवदत्साम्ना परमवल्गुना 001c
तथा चित्राङ्गदा देवी कौरव्यस्याऽऽत्मजाऽपि च 002a
पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः 002c
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः 002e
ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च 003a
द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः 003c
ऊषतुस्तत्र ते देव्यौ महार्हशयनासने 004a
सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया 004c
स च राजा महावीर्यः पूजितो बभ्रुवाहनः 005a
धृतराष्ट्रं महीपालमुपतस्थे यथाविधि 005c
युधिष्ठिरं च राजानं भीमादींश्चापि पाण्डवान् 006a
उपगम्य महातेजा विनयेनाभ्यवादयत् 006c
स तैः प्रेम्णा परिष्वक्तः पूजितश्च यथाविधि 007a
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः 007c
तथैव स महीपालः कृष्णं चक्रगदाधरम् 008a
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् 008c
तस्मै कृष्णो ददौ राज्ञे महार्हमभिपूजितम् 009a
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् 009c
धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा 010a
पृथक्पृथगतीवैनं मानार्हं समपूजयन् 010c
ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः 011a
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् 011c
अद्य प्रभृति कौन्तेय यजस्व समयो हि ते 012a
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः 012c
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् 013a
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः 013c
एवमेव महाराज दक्षिणां त्रिगुणां कुरु 014a
त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् 014c
त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् 015a
ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप 015c
पवित्रं परमं ह्येतत्पावनानां च पावनम् 016a
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन 016c
इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा 017a
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा 017c
नराधिपः प्रायजत वाजिमेधं महाक्रतुम् 017e
तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः 018a
परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः 018c
न तेषां स्खलितं तत्र नासीदपहुतं तथा 019a
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः 019c
कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः 020a
चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः 020c
अभिषूय ततो राजन्सोमं सोमपसत्तमाः 021a
सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः 021c
न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह 022a
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः 022c
भोजनं भोजनार्थिभ्यो दापयामास नित्यदा 023a
भीमसेनो महातेजाः सततं राजशासनात् 023c
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः 024a
दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः 024c
नाषडङ्गविदत्राऽऽसीत्सदस्यस्तस्य धीमतः 025a
नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः 025c
ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ 026a
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः 026c
देवदारुमयौ द्वौ तु यूपौ कुरुपतेः क्रतौ 027a
श्लेष्मातकमयं चैकं याजकाः समकारयन् 027c
शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ 028a
स भीमः कारयामास धर्मराजस्य शासनात् 028c
ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः 029a
नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि 029c
इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् 030a
शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः 030c
चतुश्चित्यः स तस्याऽऽसीदष्टादशकरात्मकः 031a
स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः 031c
ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः 032a
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये 032c
ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये 033a
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि 033c
यूपेषु नियतं चाऽऽसीत्पशूनां त्रिशतं तथा 034a
अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः 034c
स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसङ्कुलः 035a
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः 035c
स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः 036a
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः 036c
तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजोत्तमाः 037a
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु 037c
नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः 038a
विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः 038c
गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः 039a
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ 039c