युधिष्ठिर उवाच 001
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् 001a
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो 001c
बहूनि किल युद्धानि विजयस्य नराधिपैः 002a
पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् 002c
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः 003a
अतीव विजयो धीमानिति मे दूयते मनः 003c
सञ्चिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः 004a
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते 004c
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते 004e
अतीव दुःखभागी स सततं कुन्तिनन्दनः 005a
न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किञ्चन 005c
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि 005e
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् 006a
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् 006c
न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये 007a
ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः 007c
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते 008a
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः 008c
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता 009a
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो 009c
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत 010a
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा 010c
सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः 010e
तत्र भीमादयस्ते तु कुरवो यादवास्तथा 011a
रेमुः श्रुत्वा विचित्रार्था धनञ्जयकथा विभो 011c
तथा कथयतामेव तेषामर्जुनसङ्कथाः 012a
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः 012c
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् 013a
उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् 013c
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः 014a
प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा 014c
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत 015a
आयाति पुरुषव्याघ्रे पाण्डवानां धुरन्धरे 015c
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः 016a
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा 016c
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः 017a
दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः 017c
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् 018a
चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् 018c
ये व्यतीता महात्मानो राजानः सगरादयः 019a
तेषामपीदृशं कर्म न किञ्चिदनुशुश्रुम 019c
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः 020a
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह 020c
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः 021a
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् 021c
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः 022a
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा 022c
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः 023a
भीमादींश्चापि सम्पूज्य पर्यष्वजत केशवम् 023c
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि 024a
विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः 024c
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः 025a
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह 025c
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः 026a
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् 026c