वैशम्पायन उवाच 001
समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् 001a
दृष्ट्वा युधिष्ठिरो राजा भीमसेनमथाब्रवीत् 001c
उपयाता नरव्याघ्रा य इमे जगदीश्वराः 002a
एतेषां क्रियतां पूजा पूजार्हा हि नरेश्वराः 002c
इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना 003a
भीमसेनो महातेजा यमाभ्यां सह भारत 003c
अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् 004a
बलदेवं पुरस्कृत्य सर्वप्राणभृतां वरः 004c
युयुधानेन सहितः प्रद्युम्नेन गदेन च 005a
निशठेनाथ साम्बेन तथैव कृतवर्मणा 005c
तेषामपि परां पूजां चक्रे भीमो महाभुजः 006a
विविशुस्ते च वेश्मानि रत्नवन्ति नरर्षभाः 006c
युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः 007a
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् 007c
स तं पप्रच्छ कौन्तेयः पुनः पुनररिन्दमम् 008a
धर्मराड्भ्रातरं जिष्णुं समाचष्ट जगत्पतिः 008c
आगमद्द्वारकावासी ममाऽऽप्तः पुरुषो नृप 009a
योऽद्राक्षीत्पाण्डवश्रेष्ठं बहुसङ्ग्रामकर्शितम् 009c
समीपे च महाबाहुमाचष्ट च मम प्रभो 010a
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये 010c
इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः 011a
दिष्ट्या स कुशली जिष्णुरुपयाति च माधव 011c
तव यत्सन्दिदेशासौ पाण्डवानां बलाग्रणीः 012a
तदाख्यातुमिहेच्छामि भवता यदुनन्दन 012c
इत्युक्ते राजशार्दूल वृष्ण्यन्धकपतिस्तदा 013a
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् 013c
इदमाह महाराज पार्थवाक्यं नरः स माम् 014a
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम 014c
आगमिष्यन्ति राजानः सर्वतः कौरवान्प्रति 015a
तेषामेकैकशः पूजा कार्येत्येतत्क्षमं हि नः 015c
इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद 016a
न तदाऽत्ययिकं हि स्याद्यदर्घ्यानयने भवेत् 016c
कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् 017a
राजद्वेषाद्विनश्येयुर्नेमा राजन्प्रजाः पुनः 017c
इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् 018a
धनञ्जयस्य नृपते तन्मे निगदतः शृणु 018c
उपयास्यति यज्ञं नो मणिपूरपतिर्नृपः 019a
पुत्रो मम महातेजा दयितो बभ्रुवाहनः 019c
तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् 020a
स हि भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो 020c
इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः 021a
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् 021c