वैशम्पायन उवाच 001
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः 001a
हेतुवादान्बहून्प्राहुः परस्परजिगीषवः 001c
ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम् 002a
देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन 002c
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते 003a
शय्यासनविहारांश्च सुबहून्रत्नभूषितान् 003c
घटान्पात्रीः कटाहानि कलशान्वर्धमानकान् 004a
न हि किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः 004c
यूपांश्च शास्त्रपठितान्दारवान्हेमभूषितान् 005a
उपकॢप्तान्यथाकालं विधिवद्भूरिवर्चसः 005c
स्थलजा जलजा ये च पशवः केचन प्रभो 006a
सर्वानेव समानीतांस्तानपश्यन्त ते नृपाः 006c
गाश्चैव महिषीश्चैव तथा वृद्धाः स्त्रियोऽपि च 007a
औदकानि च सत्त्वानि श्वापदानि वयांसि च 007c
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च 008a
पर्वतानूपवन्यानि भूतानि ददृशुश्च ते 008c
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः 009a
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन् 009c
ब्राह्मणानां विशां चैव बहुमृष्टान्नमृद्धिमत् 009e
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् 010a
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत 010c
विननादासकृत्सोऽथ दिवसे दिवसे तदा 011a
एवं स ववृते यज्ञो धर्मराजस्य धीमतः 011c
अन्नस्य बहवो राजन्नुत्सर्गाः पर्वतोपमाः 012a
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः 012c
जम्बूद्वीपो हि सकलो नानाजनपदायुतः 013a
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ 013c
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः 014a
गृहीत्वा धनमाजग्मुर्बहूनि भरतर्षभ 014c
राजानः स्रग्विणश्चापि सुमृष्टमणिकुण्डलाः 015a
पर्यवेषन्द्विजाग्र्यांस्ताञ्शतशोऽथ सहस्रशः 015c
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः 016a
तेषां नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः स्म ते 016c