वैशम्पायन उवाच 001
इत्युक्त्वानुययौ पार्थो हयं तं कामचारिणम् 001a
न्यवर्तत ततो वाजी येन नागाह्वयं पुरम् 001c
तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः 002a
श्रुत्वाऽर्जुनं कुशलिनं स च हृष्टमनाभवत् 002c
विजयस्य च तत्कर्म गान्धारविषये तदा 003a
श्रुत्वाऽन्येषु च देशेषु स सुप्रीतोऽभवन्नृपः 003c
एतस्मिन्नेव काले तु द्वादशीं माघपाक्षिकीम् 004a
इष्टं गृहीत्वा नक्षत्रं धर्मराजो युधिष्ठिरः 004c
समानाय्य महातेजाः सर्वान्भ्रातॄन्महामनाः 005a
भीमं च नकुलं चैव सहदेवं च कौरवः 005c
प्रोवाचेदं वचः काले तदा धर्मभृतां वरः 006a
आमन्त्र्य वदतां श्रेष्ठो भीमं भीमपराक्रमम् 006c
आयाति भीमसेनासौ सहाश्वेन तवानुजः 007a
यथा मे पुरुषाः प्राहुर्ये धनञ्जयसारिणः 007c
उपस्थितश्च कालोऽयमभितो वर्तते हयः 008a
माघी च पौर्णमासीयं मासः शेषो वृकोदर 008c
तत्प्रस्थाप्यन्तु विद्वांसो ब्राह्मणा वेदपारगाः 009a
वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् 009c
इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् 010a
हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् 010c
ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह 011a
ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु 011c
तं सशालचयग्रामं सम्प्रतोलीविटङ्किनम् 012a
मापयामास कौरव्यो यज्ञवाटं यथाविधि 012c
सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् 013a
कारयामास विधिवन्मणिहेमविभूषितम् 013c
स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च 014a
यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् 014c
अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् 015a
कारयामास धर्मात्मा तत्र तत्र यथाविधि 015c
ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् 016a
कारयामास भीमः स विविधानि ह्यनेकशः 016c
तथा सम्प्रेषयामास दूतान्नृपतिशासनात् 017a
भीमसेनो महाराज राज्ञामक्लिष्टकर्मणाम् 017c
ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः 018a
रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च 018c
तेषां निविशतां तेषु शिबिरेषु सहस्रशः 019a
नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् 019c
तेषामभ्यागतानां स राजा राजीवलोचनः 020a
व्यादिदेशान्नपानानि शय्याश्चाप्यतिमानुषाः 020c
वाहनानां च विविधाः शालाः शालीक्षुगोरसैः 021a
उपेताः पुरुषव्याघ्र व्यादिदेश स धर्मराट् 021c
तथा तस्मिन्महायज्ञे धर्मराजस्य धीमतः 022a
समाजग्मुर्मुनिगणा बहवो ब्रह्मवादिनः 022c
ये च द्विजातिप्रवरास्तत्राऽऽसन्पृथिवीपते 023a
समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः 023c
सर्वांश्च ताननुययौ यावदावसथादिति 024a
स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः 024c
ततः कृत्वा स्थपतयः शिल्पिनोऽन्ये च ये तदा 025a
कृत्स्नं यज्ञविधिं राजन्धर्मराज्ञे न्यवेदयन् 025c
तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् 026a
हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः 026c