वैशम्पायन उवाच 001
शकुनेस्तु सुतो वीरो गान्धाराणां महारथः 001a
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः 001c
हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना 001e
अमृष्यमाणास्ते योधा नृपतेः शकुनेर्वधम् 002a
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः 002c
तानुवाच स धर्मात्मा बीभत्सुरपराजितः 003a
युधिष्ठिरस्य वचनं न च ते जगृहुर्हितम् 003c
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः 004a
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः 004c
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः 005a
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः 005c
ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात् 006a
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् 006c
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डवर्षभः 007a
आदिश्याऽऽदिश्य तेजस्वी शिरांस्येषां न्यपातयत् 007c
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः 008a
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् 008c
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् 009a
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात् 009c
अलं युद्धेन ते वीर न तेऽस्त्यद्य पराजयः 009e
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः 010a
स शक्रसमकर्माणमवाकिरत सायकैः 010c
तस्य पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा 011a
अपाहरदसम्भ्रान्तो जयद्रथशिरो यथा 011c
तद्दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते 012a
इच्छता तेन न हतो राजेत्यपि च ते विदुः 012c
गान्धारराजपुत्रस्तु पलायनकृतक्षणः 013a
बभौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव 013c
तेषां तु तरसा पार्थस्तत्रैव परिधावताम् 014a
विजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः 014c
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् 015a
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः 015c
सम्भ्रान्तनरनागाश्वमथ तद्विद्रुतं बलम् 016a
हतविध्वस्तभूयिष्ठमावर्तत मुहुर्मुहुः 016c
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः 017a
रिपवः पात्यमाना वै ये सहेयुर्महाशरान् 017c
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा 018a
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् 018c
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् 019a
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् 019c
तां पूजयित्वा कौन्तेयः प्रसादमकरोत्तदा 020a
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् 020c
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता 021a
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ 021c
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च 022a
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव 022c
मैवं भूः शाम्यतां वैरं मा ते भूद्बुद्धिरीदृशी 023a
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः 023c