वैशम्पायन उवाच 001
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः 001a
दक्षिणां दिशमास्थाय चारयामास तं हयम् 001c
ततः स पुनरावृत्य हयः कामचरो बली 002a
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम् 002c
शरभेणार्चितस्तत्र शिशुपालात्मजेन सः 003a
युद्धपूर्वेण मानेन पूजया च महाबलः 003c
तत्रार्चितो ययौ राजंस्तदा स तुरगोत्तमः 004a
काशीनन्ध्रान्कोसलांश्च किरातानथ तङ्गणान् 004c
तत्र पूजां यथान्यायं प्रतिगृह्य स पाण्डवः 005a
पुनरावृत्य कौन्तेयो दशार्णानगमत्तदा 005c
तत्र चित्राङ्गदो नाम बलवान्वसुधाधिपः 006a
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम् 006c
तं चापि वशमानीय किरीटी पुरुषर्षभः 007a
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान् 007c
एकलव्यसुतश्चैनं युद्धेन जगृहे तदा 008a
ततश्चक्रे निषादैः स सङ्ग्रामं रोमहर्षणम् 008c
ततस्तमपि कौन्तेयः समरेष्वपराजितः 009a
जिगाय समरे वीरो यज्ञविघ्नार्थमुद्यतम् 009c
स तं जित्वा महाराज नैषादिं पाकशासनिः 010a
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम् 010c
तत्रापि द्रविडैरन्ध्रै रौद्रैर्माहिषकैरपि 011a
तथा कोल्लगिरेयैश्च युद्धमासीत्किरीटिनः 011c
तुरगस्य वशेनाथ सुराष्ट्रानभितो ययौ 012a
गोकर्णमपि चासाद्य प्रभासमपि जग्मिवान् 012c
ततो द्वारवतीं रम्यां वृष्णिवीराभिरक्षिताम् 013a
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः 013c
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः 014a
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत् 014c
ततः पुर्या विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा 015a
सहितो वसुदेवेन मातुलेन किरीटिनः 015c
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् 016a
परया भरतश्रेष्ठं पूजया समवस्थितौ 016c
ततस्ताभ्यामनुज्ञातो ययौ येन हयो गतः 016e
ततः स पश्चिमं देशं समुद्रस्य तदा हयः 017a
क्रमेण व्यचरत्स्फीतं ततः पञ्चनदं ययौ 017c
तस्मादपि स कौरव्य गान्धारविषयं हयः 018a
विचचार यथाकामं कौन्तेयानुगतस्तदा 018c
तत्र गान्धारराजेन युद्धमासीन्महात्मनः 019a
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा 019c