वैशम्पायन उवाच 001
स तु वाजी समुद्रान्तां पर्येत्य पृथिवीमिमाम् 001a
निवृत्तोऽभिमुखो राजन्येन नागाह्वयं पुरम् 001c
अनुगच्छंश्च तेजस्वी निवृत्तोऽथ किरीटभृत् 002a
यदृच्छया समापेदे पुरं राजगृहं तदा 002c
तमभ्याशगतं राजा जरासन्धात्मजात्मजः 003a
क्षत्रधर्मे स्थितो वीरः समरायाऽऽजुहाव ह 003c
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली 004a
मेघसन्धिः पदातिं तं धनञ्जयमुपाद्रवत् 004c
आसाद्य च महातेजा मेघसन्धिर्धनञ्जयम् 005a
बालभावान्महाराज प्रोवाचेदं न कौशलात् 005c
किमयं चार्यते वाजी स्त्रीमध्य इव भारत 006a
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे 006c
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम 007a
करिष्यामि तवाऽऽतिथ्यं प्रहर प्रहरामि वा 007c
इत्युक्तः प्रत्युवाचैनं पाण्डवः प्रहसन्निव 008a
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् 008c
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् 009a
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम 009c
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेश्वरः 010a
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् 010c
ततो गाण्डीवभृच्छूरो गाण्डीवप्रेषितैः शरैः 011a
चकार मोघांस्तान्बाणानयत्नाद्भरतर्षभ 011c
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः 012a
शरान्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् 012c
ध्वजे पताकादण्डेषु रथयन्त्रे हयेषु च 013a
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ 013c
संरक्ष्यमाणः पार्थेन शरीरे फल्गुनस्य ह 014a
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् 014c
ततो गाण्डीवभृच्छूरो मागधेन समाहतः 015a
बभौ वासन्तिक इव पलाशः पुष्पितो महान् 015c
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् 016a
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने 016c
सव्यसाची तु सङ्क्रुद्धो विकृष्य बलवद्धनुः 017a
हयांश्चकार निर्देहान्सारथेश्च शिरोऽहरत् 017c
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह 018a
हस्तावापं पताकां च ध्वजं चास्य न्यपातयत् 018c
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः 019a
गदामादाय कौन्तेयमभिदुद्राव वेगवान् 019c
तस्यापतत एवाशु गदां हेमपरिष्कृताम् 020a
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः 020c
सा गदा शकलीभूता विशीर्णमणिबन्धना 021a
व्याली निर्मुच्यमानेव पपातास्य सहस्रधा 021c
विरथं तं विधन्वानं गदया परिवर्जितम् 022a
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः 022c
तत एनं विमनसं क्षत्रधर्मे समास्थितम् 023a
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः 023c
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् 024a
बह्वेतत्समरे कर्म तव बालस्य पार्थिव 024c
युधिष्ठिरस्य सन्देशो न हन्तव्या नृपा इति 025a
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे 025c
इति मत्वा स चाऽऽत्मानं प्रत्यादिष्टं स्म मागधः 026a
तथ्यमित्यवगम्यैनं प्राञ्जलिः प्रत्यपूजयत् 026c
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् 027a
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः 027c
इत्युक्तः स तथेत्युक्त्वा पूजयामास तं हयम् 028a
फल्गुनं च युधां श्रेष्ठं विधिवत्सहदेवजः 028c
ततो यथेष्टमगमत्पुनरेव स केसरी 029a
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् 029c
तत्र तत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः 030a
विजिग्ये धनुषा राजन्गाण्डीवेन धनञ्जयः 030c