अर्जुन उवाच 001
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि 001a
मणिपूरपतेर्मातुस्तथैव च रणाजिरे 001c
कच्चित्कुशलकामाऽसि राज्ञोऽस्य भुजगात्मजे 002a
मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि 002c
कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने 003a
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः 003c
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी 004a
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन 004c
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ 005a
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः 005c
न जनित्री तथाऽस्येयं मम या प्रेष्यवत्स्थिता 005e
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् 006a
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये 006c
त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयाऽनघ 007a
यत्तच्छृणु महाबाहो निखिलेन धनञ्जय 007c
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः 008a
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता 008c
न हि भीष्मस्त्वया वीर युध्यमानो निपातितः 009a
शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया 009c
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् 010a
कर्मणा तेन पापेन पतेथा निरये ध्रुवम् 010c
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि 011a
वसुभिर्वसुधापाल गङ्गया च महामते 011c
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया 012a
गङ्गायास्तीरमागम्य हते शान्तनवे नृपे 012c
आप्लुत्य देवा वसवः समेत्य च महानदीम् 013a
इदमूचुर्वचो घोरं भागीरथ्या मते तदा 013c
एष शान्तनवो भीष्मो निहतः सव्यसाचिना 014a
अयुध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि 014c
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे 015a
शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत् 015c
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया 016a
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् 016c
पिता तु मे वसून्गत्वा त्वदर्थं समयाचत 017a
पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् 017c
पुनस्तस्य महाभाग मणिपूरेश्वरो युवा 018a
स एनं रणमध्यस्थं शरैः पातयिता भुवि 018c
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति 019a
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः 019c
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः 020a
न हि त्वां देवराजोऽपि समरेषु पराजयेत् 020c
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः 021a
नात्र दोषो मम मतः कथं वा मन्यसे विभो 021c
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम् 022a
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि 022c
इत्युक्त्वाऽथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः 023a
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा 023c
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति 024a
तत्राऽऽगच्छेः सहामात्यो मातृभ्यां सहितो नृप 024c
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः 025a
उवाच पितरं धीमानिदमस्राविलेक्षणः 025c
उपयास्यामि धर्मज्ञ भवतः शासनादहम् 026a
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः 026c
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् 027a
भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा 027c
उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो 028a
पुनरश्वानुगमनं कर्ताऽसि जयतां वर 028c
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः 029a
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् 029c
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् 030a
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन 030c
यथाकामं प्रयात्येष यज्ञियश्च तुरङ्गमः 031a
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम 031c
स तत्र विधिवत्तेन पूजितः पाकशासनिः 032a
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः 032c