वैशम्पायन उवाच 001
प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा 001a
पितृशोकसमाविष्टे सह मात्रा परन्तप 001c
उलूपी चिन्तयामास तदा सञ्जीवनं मणिम् 002a
स चोपातिष्ठत तदा पन्नगानां परायणम् 002c
तं गृहीत्वा तु कौरव्य नागराजपतेः सुता 003a
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् 003c
उत्तिष्ठ मा शुचः पुत्र नैष जिष्णुस्त्वया हतः 004a
अजेयः पुरुषैरेष देवैर्वाऽपि सवासवैः 004c
मया तु मोहिनी नाम मायैषा सम्प्रयोजिता 005a
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः 005c
जिज्ञासुर्ह्येष वै पुत्र बलस्य तव कौरवः 006a
सङ्ग्रामे युध्यतो राजन्नागतः परवीरहा 006c
तस्मादसि मया पुत्र युद्धार्थं परिचोदितः 007a
मा पापमात्मनः पुत्र शङ्केथास्त्वण्वपि प्रभो 007c
ऋषिरेष महातेजाः पुरुषः शाश्वतोऽव्ययः 008a
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक 008c
अयं तु मे मणिर्दिव्यः समानीतो विशां पते 009a
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा 009c
एतमस्योरसि त्वं तु स्थापयस्व पितुः प्रभो 010a
सञ्जीवितं पुनः पुत्र ततो द्रष्टाऽसि पाण्डवम् 010c
इत्युक्तः स्थापयामास तस्योरसि मणिं तदा 011a
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् 011c
तस्मिन्न्यस्ते मणौ वीर जिष्णुरुज्जीवितः प्रभुः 012a
सुप्तोत्थित इवोत्तस्थौ मृष्टलोहितलोचनः 012c
तमुत्थितं महात्मानं लब्धसञ्ज्ञं मनस्विनम् 013a
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः 013c
उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो 014a
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः 014c
अनाहता दुन्दुभयः प्रणेदुर्मेघनिस्वनाः 015a
साधु साध्विति चाऽऽकाशे बभूव सुमहान्स्वनः 015c
उत्थाय तु महाबाहुः पर्याश्वस्तो धनञ्जयः 016a
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि 016c
ददर्श चाविदूरेऽस्य मातरं शोककर्शिताम् 017a
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनञ्जयः 017c
किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् 018a
रणाजिरममित्रघ्न यदि जानासि शंस मे 018c
जननी च किमर्थं ते रणभूमिमुपागता 019a
नागेन्द्रदुहिता चेयमुलूपी किमिहाऽऽगता 019c
जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् 020a
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् 020c
तमुवाच ततः पृष्टो मणिपूरपतिस्तदा 021a
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति 021c