वैशम्पायन उवाच 001
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा 001a
उपविष्टाऽभवद्देवी सोच्छ्वासं पुत्रमीक्षती 001c
ततः सञ्ज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः 002a
मातरं तामथाऽऽलोक्य रणभूमावथाब्रवीत् 002c
इतो दुःखतरं किं नु यन्मे माता सुखैधिता 003a
भूमौ निपतितं वीरमनुशेते मृतं पतिम् 003c
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् 004a
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत 004c
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते 005a
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् 005c
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते 006a
यत्र नाहं न मे माता विप्रयुज्येत जीवितात् 006c
अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि 007a
व्यपविद्धं हतस्येह मया पुत्रेण पश्यत 007c
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि 008a
शयानं वीरशयने मया पुत्रेण पातितम् 008c
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः 009a
कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः 009c
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे 010a
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे 010c
दुश्चरा द्वादश समा हत्वा पितरमद्य वै 011a
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा 011c
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे 012a
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम 012c
पश्य नागोत्तमसुते भर्तारं निहतं मया 013a
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् 013c
सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् 014a
न शक्नोम्यात्मनाऽऽत्मानमहं धारयितुं शुभे 014c
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि 015a
भव प्रीतिमती देवि सत्येनाऽऽत्मानमालभे 015c
इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः 016a
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् 016c
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च 017a
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे 017c
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः 018a
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् 018c
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् 019a
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः 019c
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते 020a
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया 020c
एष ह्येको महातेजाः पाण्डुपुत्रो धनञ्जयः 021a
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः 021c
इत्येवमुक्त्वा नृपते धनञ्जयसुतो नृपः 022a
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः 022c