वैशम्पायन उवाच 001
ततो बहुविधं भीरुर्विलप्य कमलेक्षणा 001a
मुमोह दुःखाद्दुर्धर्षा निपपात च भूतले 001c
प्रतिलभ्य च सा सञ्ज्ञां देवी दिव्यवपुर्धरा 002a
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् 002c
उलूपि पश्य भर्तारं शयानं निहतं रणे 003a
त्वत्कृते मम पुत्रेण बालेन समितिञ्जयम् 003c
ननु त्वमार्ये धर्मज्ञा ननु चासि पतिव्रता 004a
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे 004c
किं तु सर्वापराधोऽयं यदि तेऽद्य धनञ्जयः 005a
क्षमस्व याच्यमाना मे सञ्जीवय धनञ्जयम् 005c
ननु त्वमार्ये धर्मज्ञा त्रैलोक्यविदिता शुभे 006a
यद्घातयित्वा भर्तारं पुत्रेणेह न शोचसि 006c
नाहं शोचामि तनयं निहतं पन्नगात्मजे 007a
पतिमेव तु शोचामि यस्याऽऽतिथ्यमिदं कृतम् 007c
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् 008a
भर्तारमभिगम्येदमित्युवाच यशस्विनी 008c
उत्तिष्ठ कुरुमुख्यस्य प्रियकाम मम प्रिय 009a
अयमश्वो महाबाहो मया ते परिमोक्षितः 009c
ननु नाम त्वया वीर धर्मराजस्य यज्ञियः 010a
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले 010c
त्वयि प्राणाः समायत्ताः कुरूणां कुरुनन्दन 011a
स कस्मात्प्राणदोऽन्येषां प्राणान्सन्त्यक्तवानसि 011c
उलूपि साधु सम्पश्य भर्तारं निहतं रणे 012a
पुत्रं चैनं समुत्साह्य घातयित्वा न शोचसि 012c
कामं स्वपितु बालोऽयं भूमौ प्रेतगतिं गतः 013a
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु 013c
नापराधोऽस्ति सुभगे नराणां बहुभार्यता 014a
नारीणां तु भवत्येतन्मा ते भूद्बुद्धिरीदृशी 014c
सख्यं ह्येतत्कृतं धात्रा शाश्वतं चाव्ययं च ह 015a
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते 015c
पुत्रेण घातयित्वेमं पतिं यदि न मेऽद्य वै 016a
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् 016c
साहं दुःखान्विता भीरु पतिपुत्रविनाकृता 017a
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः 017c
इत्युक्त्वा पन्नगसुतां सपत्नीं चैत्रवाहिनी 018a
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप 018c