वैशम्पायन उवाच 001
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः 001a
निर्ययौ विनयेनाऽऽर्यो ब्राह्मणार्घ्यपुरःसरः 001c
मणिपूरेश्वरं त्वेवमुपयातं धनञ्जयः 002a
नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन् 002c
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तदा 003a
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः 003c
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् 004a
यज्ञियं विषयान्ते मां नायोत्सीः किं नु पुत्रक 004c
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् 005a
यो मां युद्धाय सम्प्राप्तं साम्नैवाथो त्वमग्रहीः 005c
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता 006a
यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः 006c
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते 007a
प्रक्रियेयं ततो युक्ता भवेत्तव नराधम 007c
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा 008a
अमृष्यमाणा भित्त्वोर्वीमुलूपी तमुपागमत् 008c
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् 009a
सन्तर्ज्यमानमसकृद्भर्त्रा युद्धार्थिना विभो 009c
ततः सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा 010a
उलूपी प्राह वचनं क्षत्रधर्मविशारदा 010c
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् 011a
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः 011c
युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिन्दम 012a
एवमेष हि ते प्रीतो भविष्यति न संशयः 012c
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः 013a
मनश्चक्रे महातेजा युद्धाय भरतर्षभ 013c
सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् 014a
तूणीरशतसम्बाधमारुरोह महारथम् 014c
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः 015a
सुचक्रोपस्करं धीमान्हेमभाण्डपरिष्कृतम् 015c
परमार्चितमुच्छ्रित्य ध्वजं सिंहं हिरण्मयम् 016a
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः 016c
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम् 017a
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः 017c
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः 018a
पुत्रं रथस्थं भूमिष्ठः सन्न्यवारयदाहवे 018c
ततः स राजा तं वीरं शरव्रातैः सहस्रशः 019a
अर्दयामास निशितैराशीविषविषोपमैः 019c
तयोः समभवद्युद्धं पितुः पुत्रस्य चातुलम् 020a
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः 020c
किरीटिनं तु विव्याध शरेण नतपर्वणा 021a
जत्रुदेशे नरव्याघ्रः प्रहसन्बभ्रुवाहनः 021c
सोऽभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः 022a
विनिर्भिद्य च कौन्तेयं महीतलमथाविशत् 022c
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् 023a
दिव्यं तेजः समाविश्य प्रमीत इव सम्बभौ 023c
स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः 024a
पुत्रं शक्रात्मजो वाक्यमिदमाह महीपते 024c
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज 025a
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक 025c
विमुञ्चाम्येष बाणांस्ते पुत्र युद्धे स्थिरो भव 026a
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा 026c
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् 027a
नाराचैरच्छिनद्राजा सर्वानेव त्रिधा त्रिधा 027c
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् 028a
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् 028c
हयांश्चास्य महाकायान्महावेगपराक्रमान् 029a
चकार राज्ञो निर्जीवान्प्रहसन्पाण्डवर्षभः 029c
स रथादवतीर्याऽऽशु राजा परमकोपनः 030a
पदातिः पितरं कोपाद्योधयामास पाण्डवम् 030c
सम्प्रीयमाणः पाण्डूनामृषभः पुत्रविक्रमात् 031a
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः 031c
स हन्यमानो विमुखं पितरं बभ्रुवाहनः 032a
शरैराशीविषाकारैः पुनरेवार्दयद्बली 032c
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा 033a
निशितेन सुपुङ्खेन बलवद्बभ्रुवाहनः 033c
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः 034a
विवेश पाण्डवं राजन्मर्म भित्त्वाऽतिदुःखकृत् 034c
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः 035a
महीं जगाम मोहार्तस्ततो राजन्धनञ्जयः 035c
तस्मिन्निपतिते वीरे कौरवाणां धुरन्धरे 036a
सोऽपि मोहं जगामाऽऽशु ततश्चित्राङ्गदासुतः 036c
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् 037a
पूर्वमेव च बाणौघैर्गाढविद्धोऽर्जुनेन सः 037c
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि 038a
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम् 038c
शोकसन्तप्तहृदया रुदती सा ततः शुभा 039a
मणिपूरपतेर्माता ददर्श निहतं पतिम् 039c