वैशम्पायन उवाच 001
ततो गाण्डीवभृच्छूरो युद्धाय समवस्थितः 001a
विबभौ युधि दुर्धर्षो हिमवानचलो यथा 001c
ततः सैन्धवयोधास्ते पुनरेव व्यवस्थिताः 002a
विमुञ्चन्तः सुसंरब्धाः शरवर्षाणि भारत 002c
तान्प्रसह्य महावीर्यः पुनरेव व्यवस्थितान् 003a
ततः प्रोवाच कौन्तेयो मुमूर्षूञ्श्लक्ष्णया गिरा 003c
युध्यध्वं परया शक्त्या यतध्वं च वधे मम 004a
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् 004c
एष योत्स्यामि वः सर्वान्निवार्य शरवागुराम् 005a
तिष्ठध्वं युद्धमनसो दर्पं विनयिताऽस्मि वः 005c
एतावदुक्त्वा कौरव्यो रुषा गाण्डीवभृत्तदा 006a
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत 006c
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः 007a
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना 007c
चिन्तयामास च तदा फल्गुनः पुरुषर्षभः 007e
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति 008a
कथं तन्न मृषेह स्याद्धर्मराजवचः शुभम् 008c
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् 009a
इति सञ्चिन्त्य स तदा भ्रातुः प्रियहिते रतः 009c
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् 009e
बालान्स्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् 010a
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः 010c
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः 011a
अतोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः 011c
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः 012a
अत्वरावानसंरब्धः संरब्धैर्विजिगीषुभिः 012c
ततः शतसहस्राणि शराणां नतपर्वणाम् 013a
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि 013c
स तानापततः क्रूरानाशीविषविषोपमान् 014a
चिच्छेद निशितैर्बाणैरन्तरैव धनञ्जयः 014c
छित्त्वा तु तानाशुगमान्कङ्कपत्राञ्शिलाशितान् 015a
एकैकमेष दशभिर्बिभेद समरे शरैः 015c
ततः प्रासांश्च शक्तीश्च पुनरेव धनञ्जये 016a
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः 016c
तेषां किरीटी सङ्कल्पं मोघं चक्रे महामनाः 017a
सर्वांस्तानन्तरा छित्त्वा मुदा चुक्रोश पाण्डवः 017c
तथैवाऽऽपततां तेषां योधानां जयगृद्धिनाम् 018a
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः 018c
तेषां प्रद्रवतां चैव पुनरेव च धावताम् 019a
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः 019c
ते वध्यमानास्तु तदा पार्थेनामिततेजसा 020a
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् 020c
ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः 021a
कृता विसञ्ज्ञा भूयिष्ठाः क्लान्तवाहनसैनिकाः 021c
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा 022a
दुःशला बालमादाय नप्तारं प्रययौ तदा 022c
सुरथस्य सुतं वीरं रथेनानागसं तदा 022e
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् 023a
सा धनञ्जयमासाद्य मुमोचाऽऽर्तस्वरं तदा 023c
धनञ्जयोऽपि तां दृष्ट्वा धनुर्विससृजे प्रभुः 023e
समुत्सृष्टधनुः पार्थो विधिवद्भगिनीं तदा 024a
प्राह किं करवाणीति सा च तं वाक्यमब्रवीत् 024c
एष ते भरतश्रेष्ठ स्वस्रीयस्याऽऽत्मजः शिशुः 025a
अभिवादयते वीर तं पश्य पुरुषर्षभ 025c
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तदा 026a
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् 026c
पितृशोकाभिसन्तप्तो विषादार्तोऽस्य वै पिता 027a
पञ्चत्वमगमद्वीर यथा तन्मे निबोध ह 027c
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ 028a
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् 028c
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनञ्जय 028e
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ 029a
विषादार्तः पपातोर्व्यां ममार च ममात्मजः 029c
तं तु दृष्ट्वा निपतितं ततस्तस्याऽऽत्मजं विभो 030a
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैषिणी 030c
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा 031a
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् 031c
स्वसारं मामवेक्षस्व स्वस्रीयात्मजमेव च 032a
कर्तुमर्हसि धर्मज्ञ दयां मयि कुरूद्वह 032c
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् 032e
अभिमन्योर्यथा जातः परिक्षित्परवीरहा 033a
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज 033c
तमादाय नरव्याघ्र सम्प्राप्ताऽस्मि तवान्तिकम् 034a
शमार्थं सर्वयोधानां शृणु चेदं वचो मम 034c
आगतोऽयं महाबाहो तस्य मन्दस्य पौत्रकः 035a
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि 035c
एष प्रसाद्य शिरसा मया सार्धमरिन्दम 036a
याचते त्वां महाबाहो शमं गच्छ धनञ्जय 036c
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः 037a
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः 037c
तमनार्यं नृशंसं च विस्मृत्यास्य पितामहम् 038a
आगस्कारिणमत्यर्थं प्रसादं कर्तुमर्हसि 038c
एवं ब्रुवत्यां करुणं दुःशलायां धनञ्जयः 039a
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् 039c
प्रोवाच दुःखशोकार्तः क्षत्रधर्मं विगर्हयन् 039e
धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् 040a
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् 040c
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः 041a
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति 041c
दुःशला चापि तान्योधान्निवार्य महतो रणात् 042a
सम्पूज्य पार्थं प्रययौ गृहान्प्रति शुभानना 042c
ततः सैन्धवकान्योधान्विनिर्जित्य नरर्षभः 043a
पुनरेवान्वधावत्स तं हयं कामचारिणम् 043c
ससार यज्ञियं वीरो विधिवत्स विशां पते 044a
तारामृगमिवाकाशे देवदेवः पिनाकधृक् 044c
स च वाजी यथेष्टेन तांस्तान्देशान्यथासुखम् 045a
विचचार यथाकामं कर्म पार्थस्य वर्धयन् 045c
क्रमेण स हयस्त्वेवं विचरन्भरतर्षभ 046a
मणिपूरपतेर्देशमुपायात्सहपाण्डवः 046c