वैशम्पायन उवाच 001
सैन्धवैरभवद्युद्धं ततस्तस्य किरीटिनः 001a
हतशेषैर्महाराज हतानां च सुतैरपि 001c
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् 002a
प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम् 002c
अश्वं च तं परामृश्य विषयान्ते विषोपमाः 003a
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् 003c
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च 004a
बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् 004c
ततस्ते तु महावीर्या राजानः पर्यवारयन् 005a
जिगीषन्तो नरव्याघ्राः पूर्वं विनिकृता युधि 005c
ते नामान्यथ गोत्राणि कर्माणि विविधानि च 006a
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् 006c
ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् 007a
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् 007c
तेऽसमीक्ष्यैव तं वीरमुग्रकर्माणमाहवे 008a
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् 008c
ते तमाजघ्निरे वीरं निवातकवचान्तकम् 009a
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च 009c
ततो रथसहस्रेण हयानामयुतेन च 010a
कोष्ठकीकृत्य कौन्तेयं सम्प्रहृष्टमयोधयन् 010c
संस्मरन्तो वधं वीराः सिन्धुराजस्य धीमतः 011a
जयद्रथस्य कौरव्य समरे सव्यसाचिना 011c
ततः पर्जन्यवत्सर्वे शरवृष्टिमवासृजन् 012a
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा 012c
स शरैः समवच्छन्नो ददृशे पाण्डवर्षभः 013a
पञ्जरान्तरसञ्चारी शकुन्त इव भारत 013c
ततो हाहाकृतं सर्वं कौन्तेये शरपीडिते 014a
त्रैलोक्यमभवद्राजन्रविश्चासीद्रजोरुणः 014c
ततो ववौ महाराज मारुतो रोमहर्षणः 015a
राहुरग्रसदादित्यं युगपत्सोममेव च 015c
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः 016a
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः 016c
मुमुचुश्चास्रमत्युष्णं दुःखशोकसमन्विताः 017a
सप्तर्षयो जातभयास्तथा देवर्षयोऽपि च 017c
शशश्चाशु विनिर्भिद्य मण्डलं शशिनोऽपतत् 018a
विपरीतस्तदा राजंस्तस्मिन्नुत्पातलक्षणे 018c
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः 019a
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् 019c
एवमासीत्तदा वीरे शरवर्षाभिसंवृते 020a
लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् 020c
तस्य तेनावकीर्णस्य शरजालेन सर्वशः 021a
मोहात्पपात गाण्डीवमावापश्च करादपि 021c
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् 022a
सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे 022c
ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः 023a
सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् 023c
ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च 024a
ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः 024c
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव 025a
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् 025c
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः 026a
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः 026c
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः 027a
ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः 027c
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः 028a
नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः 028c
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः 029a
मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः 029c
तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली 030a
अलातचक्रवद्राजञ्शरजालैः समर्पयत् 030c
तदिन्द्रजालप्रतिमं बाणजालममित्रहा 031a
व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् 031c
मेघजालनिभं सैन्यं विदार्य स रविप्रभः 032a
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः 032c