वैशम्पायन उवाच 001
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ 001a
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः 001c
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः 002a
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत् 002c
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे 003a
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि 003c
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा 004a
हतो वृद्धोऽपचायित्वाच्छिशुं मामद्य योधय 004c
इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः 005a
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति 005c
सम्प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता 006a
उत्पतिष्यन्निवाऽऽकाशमभिदुद्राव पाण्डवम् 006c
अग्रहस्तप्रमुक्तेन शीकरेण स फल्गुनम् 007a
समुक्षत महाराज शैलं नील इवाम्बुदः 007c
स तेन प्रेषितो राज्ञा मेघवन्निनदन्मुहुः 008a
मुखाडम्बरघोषेण समाद्रवत फल्गुनम् 008c
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः 009a
आससाद द्रुतं राजन्कौरवाणां महारथम् 009c
तमापतन्तं सम्प्रेक्ष्य वज्रदत्तस्य वारणम् 010a
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा 010c
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः 011a
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत 011c
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः 012a
निवारयामास तदा वेलेव मकरालयम् 012c
स नागप्रवरो वीर्यादर्जुनेन निवारितः 013a
तस्थौ शरैर्वितुन्नाङ्गः श्वाविच्छललितो यथा 013c
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः 014a
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः 014c
अर्जुनस्तु महाराज शरैः शरविघातिभिः 015a
वारयामास तानस्तांस्तदद्भुतमिवाभवत् 015c
ततः पुनरतिक्रुद्धो राजा प्राग्ज्योतिषाधिपः 016a
प्रेषयामास नागेन्द्रं बलवच्छ्वसनोपमम् 016c
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः 017a
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति 017c
स तेन वारणो राजन्मर्मण्यभिहतो भृशम् 018a
पपात सहसा भूमौ वज्ररुग्ण इवाचलः 018c
स पतञ्शुशुभे नागो धनञ्जयशराहतः 019a
विशन्निव महाशैलो महीं वज्रप्रपीडितः 019c
तस्मिन्निपतिते नागे वज्रदत्तस्य पाण्डवः 020a
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् 020c
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः 021a
राजानस्ते न हन्तव्या धनञ्जय कथञ्चन 021c
सर्वमेतन्नरव्याघ्र भवत्वेतावता कृतम् 022a
योधाश्चापि न हन्तव्या धनञ्जय रणे त्वया 022c
वक्तव्याश्चापि राजानः सर्वैः सह सुहृज्जनैः 023a
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् 023c
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां जनाधिप 024a
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव 024c
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् 025a
तदाऽश्वमेधो भविता धर्मराजस्य धीमतः 025c
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा 026a
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः 026c