वैशम्पायन उवाच 001
प्राग्ज्योतिषमथाभ्येत्य व्यचरत्स हयोत्तमः 001a
भगदत्तात्मजस्तत्र निर्ययौ रणकर्कशः 001c
स हयं पाण्डुपुत्रस्य विषयान्तमुपागतम् 002a
युयुधे भरतश्रेष्ठ वज्रदत्तो महीपतिः 002c
सोऽभिनिर्याय नगराद्भगदत्तसुतो नृपः 003a
अश्वमायान्तमुन्मथ्य नगराभिमुखो ययौ 003c
तमालक्ष्य महाबाहुः कुरूणामृषभस्तदा 004a
गाण्डीवं विक्षिपंस्तूर्णं सहसा समुपाद्रवत् 004c
ततो गाण्डीवनिर्मुक्तैरिषुभिर्मोहितो नृपः 005a
हयमुत्सृज्य तं वीरस्ततः पार्थमुपाद्रवत् 005c
पुनः प्रविश्य नगरं दंशितः स नृपोत्तमः 006a
आरुह्य नागप्रवरं निर्ययौ युद्धकाङ्क्षया 006c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि 007a
दोधूयता चामरेण श्वेतेन च महारथः 007c
ततः पार्थं समासाद्य पाण्डवानां महारथम् 008a
आह्वयामास कौरव्यं बाल्यान्मोहाच्च संयुगे 008c
स वारणं नगप्रख्यं प्रभिन्नकरटामुखम् 009a
प्रेषयामास सङ्क्रुद्धस्ततः श्वेतहयं प्रति 009c
विक्षरन्तं यथा मेघं परवारणवारणम् 010a
शास्त्रवत्कल्पितं सङ्ख्ये त्रिसाहं युद्धदुर्मदम् 010c
प्रचोद्यमानः स गजस्तेन राज्ञा महाबलः 011a
तदाऽङ्कुशेन विबभावुत्पतिष्यन्निवाम्बरम् 011c
तमापतन्तं सम्प्रेक्ष्य क्रुद्धो राजन्धनञ्जयः 012a
भूमिष्ठो वारणगतं योधयामास भारत 012c
वज्रदत्तस्तु सङ्क्रुद्धो मुमोचाऽऽशु धनञ्जये 013a
तोमरानग्निसङ्काशाञ्शलभानिव वेगितान् 013c
अर्जुनस्तानसम्प्राप्तान्गाण्डीवप्रेषितैः शरैः 014a
द्विधा त्रिधा च चिच्छेद ख एव खगमैस्तदा 014c
स तान्दृष्ट्वा तथा छिन्नांस्तोमरान्भगदत्तजः 015a
इषूनसक्तांस्त्वरितः प्राहिणोत्पाण्डवं प्रति 015c
ततोऽर्जुनस्तूर्णतरं रुक्मपुङ्खानजिह्मगान् 016a
प्रेषयामास सङ्क्रुद्धो भगदत्तात्मजं प्रति 016c
स तैर्विद्धो महातेजा वज्रदत्तो महाहवे 017a
भृशाहतः पपातोर्व्यां न त्वेनमजहात्स्मृतिः 017c
ततः स पुनरारुह्य वारणप्रवरं रणे 018a
अव्यग्रः प्रेषयामास जयार्थी विजयं प्रति 018c
तस्मै बाणांस्ततो जिष्णुर्निर्मुक्ताशीविषोपमान् 019a
प्रेषयामास सङ्क्रुद्धो ज्वलितानिव पावकान् 019c
स तैर्विद्धो महानागो विस्रवन्रुधिरं बभौ 020a
हिमवानिव शैलेन्द्रो बहुप्रस्रवणस्तदा 020c