वैशम्पायन उवाच 001
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः 001a
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः 001c
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तमम् 002a
विषयान्ते ततो वीरा दंशिताः पर्यवारयन् 002c
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः 003a
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः 003c
ततः किरीटी सञ्चिन्त्य तेषां राज्ञां चिकीर्षितम् 004a
वारयामास तान्वीरान्सान्त्वपूर्वमरिन्दमः 004c
तमनादृत्य ते सर्वे शरैरभ्यहनंस्तदा 005a
तमोरजोभ्यां सञ्छन्नांस्तान्किरीटी न्यवारयत् 005c
अब्रवीच्च ततो जिष्णुः प्रहसन्निव भारत 006a
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव वः 006c
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः 007a
हतबान्धवा न ते पार्थ हन्तव्याः पार्थिवा इति 007c
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः 008a
तान्निवर्तध्वमित्याह न न्यवर्तन्त चापि ते 008c
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे 009a
वितत्य शरजालेन प्रजहास धनञ्जयः 009c
ततस्ते रथघोषेण खुरनेमिस्वनेन च 010a
पूरयन्तो दिशः सर्वा धनञ्जयमुपाद्रवन् 010c
सूर्यवर्मा ततः पार्थे शराणां नतपर्वणाम् 011a
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् 011c
तथैवान्ये महेष्वासा ये तस्यैवानुयायिनः 012a
मुमुचुः शरवर्षाणि धनञ्जयवधैषिणः 012c
स ताञ्ज्यापुङ्खनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् 013a
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा 013c
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा 014a
युयुधे भ्रातुरर्थाय पाण्डवेन महात्मना 014c
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे 015a
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा 015c
केतुवर्मण्यभिहते धृतवर्मा महारथः 016a
रथेनाऽऽशु समावृत्य शरैर्जिष्णुमवाकिरत् 016c
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् 017a
गुडाकेशो महातेजा बालस्य धृतवर्मणः 017c
न सन्दधानं ददृशे नाऽऽददानं च तं तदा 018a
किरन्तमेव स शरान्ददृशे पाकशासनिः 018c
स तु तं पूजयामास धृतवर्माणमाहवे 019a
मनसा स मुहूर्तं वै रणे समभिहर्षयन् 019c
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव 020a
प्रीतिपूर्वं महाराज प्राणैर्न व्यपरोपयत् 020c
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा 021a
धृतवर्मा शरं तीक्ष्णं मुमोच विजये तदा 021c
स तेन विजयस्तूर्णमस्यन्विद्धः करे भृशम् 022a
मुमोच गाण्डीवं दुःखात्तत्पपाताथ भूतले 022c
धनुषः पततस्तस्य सव्यसाचिकराद्विभो 023a
इन्द्रस्येवाऽऽयुधस्याऽऽसीद्रूपं भरतसत्तम 023c
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिव 024a
जहास सस्वनं हासं धृतवर्मा महाहवे 024c
ततो रोषान्वितो जिष्णुः प्रमृज्य रुधिरं करात् 025a
धनुरादत्त तद्दिव्यं शरवर्षं ववर्ष च 025c
ततो हलहलाशब्दो दिवस्पृगभवत्तदा 026a
नानाविधानां भूतानां तत्कर्मातीव शंसताम् 026c
ततः सम्प्रेक्ष्य तं क्रुद्धं कालान्तकयमोपमम् 027a
जिष्णुं त्रैगर्तका योधास्त्वरिताः पर्यवारयन् 027c
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः 028a
परिवव्रुर्गुडाकेशं तत्राक्रुध्यद्धनञ्जयः 028c
ततो योधाञ्जघानाऽऽशु तेषां स दश चाष्ट च 029a
महेन्द्रवज्रप्रतिमैरायसैर्निशितैः शरैः 029c
तांस्तु प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनञ्जयः 030a
शरैराशीविषाकारैर्जघान स्वनवद्धसन् 030c
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः 031a
दिशो विदुद्रुवुः सर्वा धनञ्जयशरार्दिताः 031c
त ऊचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् 032a
तव स्म किङ्कराः सर्वे सर्वे च वशगास्तव 032c
आज्ञापयस्व नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् 033a
करिष्यामः प्रियं सर्वं तव कौरवनन्दन 033c
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा 034a
जीवितं रक्षत नृपाः शासनं गृह्यतामिति 034c