वैशम्पायन उवाच 001
दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः 001a
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् 001c
कृत्वा स पशुबन्धांश्च दीक्षितः पाण्डुनन्दनः 002a
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत 002c
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना 003a
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा 003c
स राजा धर्मजो राजन्दीक्षितो विबभौ तदा 004a
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः 004c
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः 005a
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे 005c
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशां पते 006a
बभूवुरर्जुनश्चैव प्रदीप्त इव पावकः 006c
श्वेताश्वः कृष्णसारं तं ससाराश्वं धनञ्जयः 007a
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् 007c
विक्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् 008a
तमश्वं पृथिवीपाल मुदा युक्तः ससार ह 008c
आकुमारं तदा राजन्नागमत्तत्पुरं विभो 009a
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनञ्जयम् 009c
तेषामन्योन्यसम्मर्दादूष्मेव समजायत 010a
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् 010c
ततः शब्दो महाराज दशाशाः प्रतिपूरयन् 011a
बभूव प्रेक्षतां नॄणां कुन्तीपुत्रं धनञ्जयम् 011c
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् 012a
यमन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् 012c
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः 013a
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत 013c
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् 014a
नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते 014c
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः 015a
स्वस्ति गच्छत्वरिष्टं वै पन्थानमकुतोभयम् 015c
निवृत्तमेनं द्रक्ष्यामः पुनरेवं च तेऽब्रुवन् 015e
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ 016a
शुश्राव मधुरा वाचः पुनः पुनरुदीरिताः 016c
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि 017a
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः 017c
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः 018a
अनुजग्मुर्महात्मानं क्षत्रियाश्च विशोऽपि च 018c
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा 019a
चचार स महाराज यथादेशं स सत्तम 019c
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह 020a
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च 020c
स हयः पृथिवीं राजन्प्रदक्षिणमरिन्दम 021a
ससारोत्तरतः पूर्वं तन्निबोध महीपते 021c
अवमृद्नन्स राष्ट्राणि पार्थिवानां हयोत्तमः 022a
शनैस्तदा परिययौ श्वेताश्वश्च महारथः 022c
तत्र सङ्कलना नास्ति राज्ञामयुतशस्तदा 023a
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः 023c
किराता विकृता राजन्बहवोऽसिधनुर्धराः 024a
म्लेच्छाश्चान्ये बहुविधाः पूर्वं विनिकृता रणे 024c
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः 025a
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः 025c
एवं युद्धानि वृत्तानि तत्र तत्र महीपते 026a
अर्जुनस्य महीपालैर्नानादेशनिवासिभिः 026c
यानि तूभयतो राजन्प्रतप्तानि महान्ति च 027a
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ 027c