वैशम्पायन उवाच 001
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः 001a
व्यासमामन्त्र्य मेधावी ततो वचनमब्रवीत् 001c
यथा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः 002a
दीक्षयस्व तदा मा त्वं त्वय्यायत्तो हि मे क्रतुः 002c
व्यास उवाच 003
अहं पैलोऽथ कौन्तेय याज्ञवल्क्यस्तथैव च 003a
विधानं यद्यथाकालं तत्कर्तारो न संशयः 003c
चैत्र्यां हि पौर्णमास्यां च तव दीक्षा भविष्यति 004a
सम्भाराः सम्भ्रियन्तां ते यज्ञार्थं पुरुषर्षभ 004c
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः 005a
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये 005c
तमुत्सृज्य यथाशास्त्रं पृथिवीं सागराम्बराम् 006a
स पर्येतु यशो नाम्ना तव पार्थिव वर्धयन् 006c
वैशम्पायन उवाच 007
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः 007a
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना 007c
सम्भाराश्चैव राजेन्द्र सर्वे सङ्कल्पिताभवन् 007e
स सम्भारान्समाहृत्य नृपो धर्मात्मजस्तदा 008a
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै 008c
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् 009a
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे 009c
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव 010a
तत्र योग्यं भवेत्किञ्चित्तद्रौक्मं क्रियतामिति 010c
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् 011a
सुगुप्तश्च चरत्वेष यथाशास्त्रं युधिष्ठिर 011c
युधिष्ठिर उवाच 012
अयमश्वो मया ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् 012a
चरिष्यति यथाकामं तत्र वै संविधीयताम् 012c
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् 013a
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति 013c
वैशम्पायन उवाच 014
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् 014a
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् 014c
जिष्णुः सहिष्णुर्धृष्णुश्च स एनं पालयिष्यति 015a
शक्तः स हि महीं जेतुं निवातकवचान्तकः 015c
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा 016a
दिव्यं धनुश्चेषुधी च स एनमनुयास्यति 016c
स हि धर्मार्थकुशलः सर्वविद्याविशारदः 017a
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् 017c
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः 018a
अभिमन्योः पिता वीरः स एनमनुयास्यति 018c
भीमसेनोऽपि तेजस्वी कौन्तेयोऽमितविक्रमः 019a
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशां पते 019c
सहदेवस्तु कौरव्य समाधास्यति बुद्धिमान् 020a
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः 020c
तत्तु सर्वं यथान्यायमुक्तं कुरुकुलोद्वहः 021a
चकार फल्गुनं चापि सन्दिदेश हयं प्रति 021c
युधिष्ठिर उवाच 022
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् 022a
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः 022c
ये चापि त्वां महाबाहो प्रत्युदीयुर्नराधिपाः 023a
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयाऽनघ 023c
आख्यातव्यश्च भवता यज्ञोऽयं मम सर्वशः 024a
पार्थिवेभ्यो महाबाहो समये गम्यतामिति 024c
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् 025a
भीमं च नकुलं चैव पुरगुप्तौ समादधत् 025c
कुटुम्बतन्त्रे च तथा सहदेवं युधां पतिम् 026a
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः 026c