वैशम्पायन उवाच 001
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः 001a
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया 001c
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह 002a
विविशुः सहिता राजन्पुरं वारणसाह्वयम् 002c
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च 003a
द्यावापृथिव्यौ खं चैव शब्देनाऽऽसीत्समावृतम् 003c
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा 004a
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः 004c
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् 005a
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे 005c
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् 006a
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः 006c
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च 007a
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते 007c
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् 008a
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत 008c
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः 009a
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् 009c
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः 010a
आजगाम महातेजा नगरं नागसाह्वयम् 010c
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः 011a
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा 011c
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै 012a
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् 012c
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् 013a
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ 013c
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम 014a
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः 014c
व्यास उवाच 015
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् 015a
यजस्व वाजिमेधेन विधिवद्दक्षिणावता 015c
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् 016a
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः 016c
वैशम्पायन उवाच 017
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः 017a
अश्वमेधस्य कौरव्य चकाराऽऽहरणे मतिम् 017c
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः 018a
वासुदेवमथाऽऽमन्त्र्य वाग्मी वचनमब्रवीत् 018c
देवकी सुप्रजा देवी त्वया पुरुषसत्तम 019a
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत 019c
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन 020a
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही 020c
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः 021a
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो 021c
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः 021e
वासुदेव उवाच 022
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिन्दम 022a
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः 022c
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे 023a
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः 023c
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया 024a
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत 024c
सत्यं ते प्रतिजानामि सर्वं कर्ताऽस्मि तेऽनघ 024e
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ 025a
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत 025c