वैशम्पायन उवाच 001
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् 001a
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम् 001c
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् 002a
अन्तरिक्षे च वागासीत्साधु केशव साध्विति 002c
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा 003a
ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर 003c
व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् 003e
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः 004a
ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् 004c
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् 005a
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः 005c
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा 006a
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः 006c
तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः 007a
सूतमागधसङ्घाश्चाप्यस्तुवन्वै जनार्दनम् 007c
कुरुवंशस्तवाऽऽख्याभिराशीर्भिर्भरतर्षभ 007e
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् 008a
अभ्यवादयत प्रीता सह पुत्रेण भारत 008c
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः 008e
तथाऽन्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः 009a
पितुस्तव महाराज सत्यसन्धो जनार्दनः 009c
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः 010a
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा 010c
सोऽवर्धत यथाकालं पिता तव नराधिप 011a
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत 011c
मासजातस्तु ते वीर पिता भवति भारत 012a
अथाऽऽजग्मुः सुबहुलं रत्नमादाय पाण्डवाः 012c
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः 013a
अलञ्चक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् 013c
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि 014a
वेश्मानि समलञ्चक्रुः पौराश्चापि जनाधिप 014c
देवतायतनानां च पूजा बहुविधास्तथा 015a
सन्दिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया 015c
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः 016a
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् 016c
नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः 017a
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा 017c
बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः 018a
तत्र तत्र विविक्तेषु समन्तादुपशोभितम् 018c
पताका धूयमानाश्च श्वसता मातरिश्वना 019a
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् 019c
अघोषयत्तदा चापि पुरुषो राजधूर्गतः 020a
सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः 020c