वैशम्पायन उवाच 001
सैवं विलप्य करुणं सोन्मादेव तपस्विनी 001a
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी 001c
तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम् 002a
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः 002c
मुहूर्तमिव तद्राजन्पाण्डवानां निवेशनम् 003a
अप्रेक्षणीयमभवदार्तस्वरनिनादितम् 003c
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता 004a
कश्मलाऽभिहता वीर वैराटी त्वभवत्तदा 004c
प्रतिलभ्य तु सा सञ्ज्ञामुत्तरा भरतर्षभ 005a
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् 005c
धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे 006a
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् 006c
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव 007a
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन 007c
याऽहं त्वया विहीनाऽद्य पत्या पुत्रेण चैव ह 008a
मर्तव्ये सति जीवामि हतस्वस्तिरकिञ्चना 008c
अथ वा धर्मराज्ञाऽहमनुज्ञाता महाभुज 009a
भक्षयिष्ये विषं तीक्ष्णं प्रवेक्ष्ये वा हुताशनम् 009c
अथ वा दुर्मरं तात यदिदं मे सहस्रधा 010a
पतिपुत्रविहीनाया हृदयं न विदीर्यते 010c
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम् 011a
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे 011c
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् 012a
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव 012c
उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः 013a
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणम् 013c
एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः 014a
उत्तरां ताः स्त्रियः सर्वाः पुनरुत्थापयन्त्युत 014c
उत्थाय तु पुनर्धैर्यात्तदा मत्स्यपतेः सुता 015a
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत् 015c
श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः 016a
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं सञ्जहार तत् 016c
प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः 017a
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयञ्जगत् 017c
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति 018a
एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम् 018c
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन 019a
न च युद्धे परावृत्तस्तथा सञ्जीवतामयम् 019c
यथा मे दयितो धर्मो ब्राह्मणाश्च विशेषतः 020a
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा 020c
यथाऽहं नाभिजानामि विजयेन कदाचन 021a
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः 021c
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ 022a
तथा मृतः शिशुरयं जीवतामभिमन्युजः 022c
यथा कंसश्च केशी च धर्मेण निहतौ मया 023a
तेन सत्येन बालोऽयं पुनरुज्जीवतामिह 023c
इत्युक्तो वासुदेवेन स बालो भरतर्षभ 024a
शनैः शनैर्महाराज प्रास्पन्दत सचेतनः 024c