वैशम्पायन उवाच 001
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः 001a
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् 001c
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः 002a
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव 002c
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव 003a
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि 003c
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् 004a
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज 004c
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः 005a
वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः 005c
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा 006a
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः 006c
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः 006e
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव 007a
हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् 007c
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा 008a
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् 008c
अयमायाति ते भद्रे श्वशुरो मधुसूदनः 009a
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः 009c
साऽपि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह 010a
सुसंवीताऽभवद्देवी देववत्कृष्णमीक्षती 010c
सा तथा दूयमानेन हृदयेन तपस्विनी 011a
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् 011c
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ 012a
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन 012c
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये 013a
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममाऽऽत्मजम् 013c
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः 014a
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् 014c
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो 015a
अहमेव विनष्टा स्यां नेदमेवङ्गतं भवेत् 015c
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् 016a
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते 016c
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण 017a
प्राणांस्त्यक्ष्यामि गोविन्द नायं सञ्जीवते यदि 017c
अस्मिन्हि बहवः साधो ये ममाऽऽसन्मनोरथाः 018a
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव 018c
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन 019a
अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् 019c
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ 020a
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः 020c
चपलाक्षः किलातीव प्रियस्ते मधुसूदन 021a
सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् 021c
कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा 022a
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् 022c
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव 023a
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति 023c
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया 024a
इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः 024c