वैशम्पायन उवाच 001
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा 001a
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् 001c
पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः 002a
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् 002c
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता 003a
सोत्तरायां निपतिता विजये मयि चैव ह 003c
सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव 004a
यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो 004c
किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः 005a
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ 005c
श्रुत्वाऽभिमन्योस्तनयं जातं च मृतमेव च 006a
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः 006c
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः 007a
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः 007c
भविताऽतः परं दुःखं किं नु मन्ये जनार्दन 008a
अभिमन्योः सुतात्कृष्ण मृताज्जातादरिन्दम 008c
साऽहं प्रसादये कृष्ण त्वामद्य शिरसा नता 009a
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम 009c
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव 010a
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन 010c
अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम 011a
अहं सञ्जीवयिष्यामि किरीटितनयात्मजम् 011c
इत्येतद्वचनं श्रुत्वा जानमाना बलं तव 012a
प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः 012c
यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् 013a
सफलं वृष्णिशार्दूल मृतां मामुपधारय 013c
अभिमन्योः सुतो वीर न सञ्जीवति यद्ययम् 014a
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया 014c
सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् 015a
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः 015c
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः 016a
स तां वाचमृतां कर्तुमर्हसि त्वमरिन्दम 016c
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् 017a
किं पुनर्दयितं जातं स्वस्रीयस्याऽऽत्मजं मृतम् 017c
प्रभावज्ञाऽस्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते 018a
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् 018c
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः 019a
प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि 019c