वैशम्पायन उवाच 001
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान् 001a
उपायाद्वृष्णिभिः सार्धं पुरं वारणसाह्वयम् 001c
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः 002a
यथोक्तो धर्मपुत्रेण व्रजन्स स्वपुरीं प्रति 002c
रौक्मिणेयेन सहितो युयुधानेन चैव ह 003a
चारुदेष्णेन साम्बेन गदेन कृतवर्मणा 003c
सारणेन च वीरेण निशठेनोल्मुकेन च 004a
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा 004c
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः 005a
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः 005c
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः 006a
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः 006c
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषर्षभः 007a
विदुरेण महातेजास्तथैव च युयुत्सुना 007c
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय 008a
जज्ञे तव पिता राजन्परिक्षित्परवीरहा 008c
स तु राजा महाराज ब्रह्मास्त्रेणाभिपीडितः 009a
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः 009c
हृष्टानां सिंहनादेन जनानां तत्र निस्वनः 010a
आविश्य प्रदिशः सर्वाः पुनरेव व्युपारमत् 010c
ततः सोऽतित्वरः कृष्णो विवेशान्तःपुरं तदा 011a
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः 011c
ततस्त्वरितमायान्तीं ददर्श स्वां पितृष्वसाम् 012a
क्रोशन्तीमभिधावेति वासुदेवं पुनः पुनः 012c
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम् 013a
सविक्रोशं सकरुणं बान्धवानां स्त्रियो नृप 013c
ततः कृष्णं समासाद्य कुन्ती राजसुता तदा 014a
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा 014c
वासुदेव महाबाहो सुप्रजा देवकी त्वया 015a
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम् 015c
यदुप्रवीर योऽयं ते स्वस्रीयस्याऽऽत्मजः प्रभो 016a
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव 016c
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन 017a
अहं सञ्जीवयिष्यामि मृतं जातमिति प्रभो 017c
सोऽयं जातो मृतस्तात पश्यैनं पुरुषर्षभ 018a
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव 018c
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा 019a
सहदेवं च दुर्धर्ष सर्वान्नस्त्रातुमर्हसि 019c
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च 020a
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे 020c
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च 021a
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन 021c
उत्तरा हि प्रियोक्तं वै कथयत्यरिसूदन 022a
अभिमन्योर्वचः कृष्ण प्रियत्वात्ते न संशयः 022c
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिः पुरा 023a
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति 023c
गत्वा वृष्ण्यन्धककुलं धनुर्वेदं ग्रहीष्यति 024a
अस्त्राणि च विचित्राणि नीतिशास्त्रं च केवलम् 024c
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा 025a
कथयामास दुर्धर्षस्तथा चैतन्न संशयः 025c
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन 026a
कुलस्यास्य हितार्थं त्वं कुरु कल्याणमुत्तमम् 026c
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना 027a
उच्छ्रित्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि 027c
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः 028a
स्वस्रीयो वासुदेवस्य मृतो जात इति प्रभो 028c
एवमुक्ते ततः कुन्तीं प्रत्यगृह्णाज्जनार्दनः 029a
भूमौ निपतितां चैनां सान्त्वयामास भारत 029c