ब्राह्मणा ऊचुः 001
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः 001a
कृत्वोपहारं नृपते ततः स्वार्थे यतामहे 001c
वैशम्पायन उवाच 002
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः 002a
गिरीशस्य यथान्यायमुपहारमुपाहरत् 002c
आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन ह 003a
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा 003c
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप 004a
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम् 004c
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि 005a
सर्वं स्विष्टकृतं कृत्वा विधिवद्वेदपारगः 005c
किङ्कराणां ततः पश्चाच्चकार बलिमुत्तमम् 005e
यक्षेन्द्राय कुबेराय मणिभद्राय चैव ह 006a
तथाऽन्येषां च यक्षाणां भूताधिपतयश्च ये 006c
कृसरेण समांसेन निवापैस्तिलसंयुतैः 007a
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिव 007c
कृत्वा तु पूजां रुद्रस्य गणानां चैव सर्वशः 008a
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति 008c
पूजयित्वा धनाध्यक्षं प्रणिपत्याभिवाद्य च 009a
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च 009c
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः 010a
अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् 010c
तेषां पुण्याहघोषेण तेजसा समवस्थितः 011a
प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् 011c
ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः 012a
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् 012c
बहूनि च विचित्राणि भाजनानि सहस्रशः 013a
उद्धारयामास तदा धर्मराजो युधिष्ठिरः 013c
तेषां लक्षणमप्यासीन्महान्करपुटस्तथा 014a
त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप 014c
वाहनं पाण्डुपुत्रस्य तत्राऽऽसीत्तु विशां पते 015a
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः 015c
वारणाश्च महाराज सहस्रशतसम्मिताः 016a
शकटानि रथाश्चैव तावदेव करेणवः 016c
खराणां पुरुषाणां च परिसङ्ख्या न विद्यते 016e
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः 017a
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् 017c
एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः 018a
महादेवं प्रति ययौ पुरं नागाह्वयं प्रति 018c
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् 019a
गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः 019c
सा पुराभिमुखी राजञ्जगाम महती चमूः 020a
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् 020c