वैशम्पायन उवाच 001
ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः 001a
रथघोषेण महता पूरयन्तो वसुन्धराम् 001c
संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः 002a
स्वेन सैन्येन संवीता यथाऽऽदित्याः स्वरश्मिभिः 002c
पाण्डुरेणाऽऽतपत्रेण ध्रियमाणेन मूर्धनि 003a
बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् 003c
जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः 004a
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः 004c
तथैव सैनिका राजन्राजानमनुयान्ति ये 005a
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत 005c
स सरांसि नदीश्चैव वनान्युपवनानि च 006a
अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत 006c
तस्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम् 007a
चक्रे निवेशनं राजा पाण्डवः सह सैनिकैः 007c
शिवे देशे समे चैव तदा भरतसत्तम 007e
अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान् 008a
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम् 008c
प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः 009a
कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् 009c
कृत्वा च मध्ये राजानममात्यांश्च यथाविधि 010a
षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः 010c
मत्तानां वारणेन्द्राणां निवेशं च यथाविधि 011a
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् 011c
अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे 012a
यथा भवन्तो मन्यन्ते कर्तुमर्हथ तत्तथा 012c
न नः कालात्ययो वै स्यादिहैव परिलम्बताम् 013a
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् 013c
श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः 014a
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः 014c
अद्यैव नक्षत्रमहश्च पुण्यं यतामहे श्रेष्ठतमं क्रियासु 015a
अम्भोभिरद्येह वसाम राजन्नुपोष्यतां चापि भवद्भिरद्य 015c
श्रुत्वा तु तेषां द्विजसत्तमानां कृतोपवासा रजनीं नरेन्द्राः 016a
ऊषुः प्रतीताः कुशसंस्तरेषु यथाऽध्वरेषु ज्वलिता हव्यवाहाः 016c
ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः 017a
ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम् 017c