जनमेजय उवाच 001
श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना 001a
अश्वमेधं प्रति तदा किं नृपः प्रचकार ह 001c
रत्नं च यन्मरुत्तेन निहितं पृथिवीतले 002a
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम 002c
वैशम्पायन उवाच 003
श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः 003a
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् 003c
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि 003e
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना 004a
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता 004c
तपोवृद्धेन महता सुहृदां भूतिमिच्छता 005a
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा 005c
भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता 006a
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः 006c
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् 007a
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः 007c
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः 008a
तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः 008c
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि 009a
तदानयामहे सर्वे कथं वा भीम मन्यसे 009c
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह 010a
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् 010c
रोचते मे महाबाहो यदिदं भाषितं त्वया 011a
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति 011c
यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो 012a
कृतमेव महाराज भवेदिति मतिर्मम 012c
ते वयं प्रणिपातेन गिरीशस्य महात्मनः 013a
तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् 013c
तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् 014a
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः 014c
रक्षन्ते ये च तद्द्रव्यं किङ्करा रौद्रदर्शनाः 015a
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे 015c
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत 016a
प्रीतो धर्मात्मजो राजा बभूवातीव भारत 016c
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा 016e
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् 017a
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे 017c
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च 018a
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् 018c
मोदकैः पायसेनाथ मांसापूपैस्तथैव च 019a
आशास्य च महात्मानं प्रययुर्मुदिता भृशम् 019c
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ 020a
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते 020c
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च 021a
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः 021c
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् 022a
धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् 022c
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् 023a
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः 023c