वैशम्पायन उवाच 001
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा 001a
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् 001c
तथैव वासुदेवोऽपि स्वस्रीयस्य महात्मनः 002a
दयितस्य पितुर्नित्यमकरोदौर्ध्वदेहिकम् 002c
षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः 003a
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् 003c
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् 004a
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् 004c
सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा 005a
दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् 005c
वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः 006a
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा 006c
अतीव दुःखसन्तप्ता न शमं चोपलेभिरे 006e
तथैव पाण्डवा वीरा नगरे नागसाह्वये 007a
नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः 007c
सुबहूनि च राजेन्द्र दिवसानि विराटजा 008a
नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् 008c
कुक्षिस्थ एव तस्यास्तु स गर्भः सम्प्रलीयत 008e
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा 009a
आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् 009c
उत्तरां च महातेजाः शोकः सन्त्यज्यतामयम् 009e
जनिष्यति महातेजाः पुत्रस्तव यशस्विनि 010a
प्रभावाद्वासुदेवस्य मम व्याहरणादपि 010c
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् 010e
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य पश्यतः 011a
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत 011c
पौत्रस्तव महाबाहो जनिष्यति महामनाः 012a
पृथ्वीं सागरपर्यन्तां पालयिष्यति चैव ह 012c
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन 013a
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति 013c
यच्चापि वृष्णिवीरेण कृष्णेन कुरुनन्दन 014a
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा 014c
विबुधानां गतो लोकानक्षयानात्मनिर्जितान् 015a
न स शोच्यस्त्वया तात न चान्यैः कुरुभिस्तथा 015c
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः 016a
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा 016c
पिताऽपि तव धर्मज्ञ गर्भे तस्मिन्महामते 017a
अवर्धत यथाकालं शुक्लपक्षे यथा शशी 017c
ततः सञ्चोदयामास व्यासो धर्मात्मजं नृपम् 018a
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् 018c
धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः 019a
वित्तोपनयने तात चकार गमने मतिम् 019c