वैशम्पायन उवाच 001
कथयन्नेव तु तदा वासुदेवः प्रतापवान् 001a
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः 001c
अभिमन्योर्वधं वीरः सोऽत्यक्रामत भारत 002a
अप्रियं वसुदेवस्य मा भूदिति महामनाः 002c
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् 003a
दुःखशोकाभिसन्तप्तो भवेदिति महामतिः 003c
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे 004a
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि 004c
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा 005a
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः 005c
ततः स दौहित्रवधाद्दुःखशोकसमन्वितः 006a
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् 006c
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः 007a
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् 007c
तद्भागिनेयनिधनं तत्त्वेनाऽऽचक्ष्व मे विभो 008a
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे 008c
दुर्मरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सदा 009a
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते 009c
किमब्रवीत्त्वा सङ्ग्रामे सुभद्रां मातरं प्रति 010a
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम 010c
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः 011a
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् 011c
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः 012a
बालभावेन विजयमात्मनोऽकथयत्प्रभुः 012c
कच्चिन्न विकृतो बालो द्रोणकर्णकृपादिभिः 013a
धरण्यां निहतः शेते तन्ममाचक्ष्व केशव 013c
स हि द्रोणं च भीष्मं च कर्णं च रथिनां वरम् 014a
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम 014c
एवंविधं बहु तदा विलपन्तं सुदुःखितम् 015a
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत् 015c
न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि 016a
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः 016c
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः 017a
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः 017c
एको ह्येकेन सततं युध्यमानो यदि प्रभो 018a
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा 018c
समाहूते तु सङ्ग्रामे पार्थे संशप्तकैस्तदा 019a
पर्यवार्यत सङ्क्रुद्धैः स द्रोणादिभिराहवे 019c
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे पितुः 020a
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः 020c
नूनं च स गतः स्वर्गं जहि शोकं महामते 021a
न हि व्यसनमासाद्य सीदन्ते सन्नराः क्वचित् 021c
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः 022a
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् 022c
स शोकं जहि दुर्धर्ष मा च मन्युवशं गमः 023a
शस्त्रपूतां हि स गतिं गतः परपुरञ्जयः 023c
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम 024a
दुःखार्ताऽथो पृथां प्राप्य कुररीव ननाद ह 024c
द्रौपदीं च समासाद्य पर्यपृच्छत दुःखिता 025a
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् 025c
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः 026a
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् 026c
उत्तरां चाब्रवीद्भद्रा भद्रे भर्ता क्व ते गतः 027a
क्षिप्रमागमनं मह्यं तस्मै त्वं वेदयस्व ह 027c
ननु नाम स वैराटि श्रुत्वा मम गिरं पुरा 028a
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः 028c
अभिमन्यो कुशलिनो मातुलास्ते महारथाः 029a
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् 029c
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम 030a
कस्मादेव विलपतीं नाद्येह प्रतिभाषसे 030c
एवमादि तु वार्ष्णेय्यास्तदस्याः परिदेवितम् 031a
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् 031c
सुभद्रे वासुदेवेन तथा सात्यकिना रणे 032a
पित्रा च पालितो बालः स हतः कालधर्मणा 032c
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि 033a
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् 033c
कुले महति जाताऽसि क्षत्रियाणां महात्मनाम् 034a
मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणे 034c
उत्तरां त्वमवेक्षस्व गर्भिणीं मा शुचः शुभे 035a
पुत्रमेषा हि तस्याऽऽशु जनयिष्यति भामिनी 035c
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह 036a
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् 036c
समनुज्ञाप्य धर्मज्ञा राजानं भीममेव च 037a
यमौ यमोपमौ चैव ददौ दानान्यनेकशः 037c
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह 038a
समहृष्यत वार्ष्णेयी वैराटीं चाब्रवीदिदम् 038c
वैराटि नेह सन्तापस्त्वया कार्यो यशस्विनि 039a
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम् 039c
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते 040a
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् 040c
एवं स निधनं प्राप्तो दौहित्रस्तव माधव 041a
सन्तापं जहि दुर्धर्ष मा च शोके मनः कृथाः 041c