वसुदेव उवाच 001
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् 001a
नराणां वदतां पुत्र कथोद्घातेषु नित्यशः 001c
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुज 002a
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ 002c
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् 003a
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् 003c
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः 004a
नानावेषाकृतिमतां नानादेशनिवासिनाम् 004c
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदन्तिके 005a
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा 005c
वासुदेव उवाच 006
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् 006a
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि 006c
प्राधान्यतस्तु गदतः समासेनैव मे शृणु 007a
कर्माणि पृथिवीशानां यथावदमरद्युते 007c
भीष्मः सेनापतिरभूदेकादशचमूपतिः 008a
कौरव्यः कौरवेयाणां देवानामिव वासवः 008c
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः 009a
बभूव रक्षितो धीमान्धीमता सव्यसाचिना 009c
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् 010a
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् 010c
ततः शिखण्डी गाङ्गेयमयुध्यन्तं महाहवे 011a
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना 011c
अकरोत्स ततः कालं शरतल्पगतो मुनिः 012a
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे 012c
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषां वरः 013a
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव 013c
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः 014a
संवृतः समरश्लाघी गुप्तः कृपवृषादिभिः 014c
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् 015a
गुप्तो भीमेन तेजस्वी मित्रेण वरुणो यथा 015c
पञ्चसेनापरिवृतो द्रोणप्रेप्सुर्महामनाः 016a
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् 016c
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे 017a
नानादिगागता वीराः प्रायशो निधनं गताः 017c
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् 018a
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः 018c
ततः सेनापतिरभूत्कर्णो दौर्योधने बले 019a
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे 019c
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः 020a
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः 020c
ततः पार्थं समासाद्य पतङ्ग इव पावकम् 021a
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणे 021c
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः 022a
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् 022c
हतवाहनभूयिष्ठाः पाण्डवास्तु युधिष्ठिरम् 023a
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् 023c
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः 024a
तस्मिंस्तथाऽर्धदिवसे कर्म कृत्वा सुदुष्करम् 024c
हते शल्ये तु शकुनिं सहदेवो महामनाः 025a
आहर्तारं कलेस्तस्य जघानामितविक्रमः 025c
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः 026a
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः 026c
तमन्वधावत्सङ्क्रुद्धो भीमसेनः प्रतापवान् 027a
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् 027c
ततः शिष्टेन सैन्येन समन्तात्परिवार्य तम् 028a
उपोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः 028c
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः 029a
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः 029c
ततः स निहतो राजा धार्तराष्ट्रो महामृधे 030a
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् 030c
ततस्तत्पाण्डवं सैन्यं संसुप्तं शिबिरे निशि 031a
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता 031c
हतपुत्रा हतबला हतमित्रा मया सह 032a
युयुधानद्वितीयेन पञ्च शिष्टाः स्म पाण्डवाः 032c
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत 033a
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् 033c
निहते कौरवेन्द्रे च सानुबन्धे सुयोधने 034a
विदुरः सञ्जयश्चैव धर्मराजमुपस्थितौ 034c
एवं तदभवद्युद्धमहान्यष्टादश प्रभो 035a
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् 035c
वैशम्पायन उवाच 036
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् 036a
दुःखहर्षपरिक्लेशा वृष्णीनामभवंस्तदा 036c