जनमेजय उवाच 001
उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम 001a
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः 001c
वैशम्पायन उवाच 002
दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह 002a
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः 002c
सरांसि च नदीश्चैव वनानि विविधानि च 003a
अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् 003c
वर्तमाने महाराज महे रैवतकस्य च 004a
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा 004c
अलङ्कृतस्तु स गिरिर्नानारूपविचित्रितैः 005a
बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ 005c
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च 006a
वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः 006c
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः 007a
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह 007c
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः 008a
पुम्भिः स्त्रीभिश्च सङ्घुष्टः प्रगीत इव चाभवत् 008c
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव 008e
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत 009a
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः 009c
प्रमत्तमत्तसम्मत्तक्ष्वेडितोत्कृष्टसङ्कुला 010a
तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा 010c
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् 011a
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् 011c
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह 012a
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् 012c
बभौ परमकल्याणो महस्तस्य महागिरेः 012e
पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः 013a
विहारो वृष्णिवीराणां महे रैवतकस्य ह 013c
स नगो वेश्मसङ्कीर्णो देवलोक इवाऽऽबभौ 013e
तदा च कृष्णसान्निध्यमासाद्य भरतर्षभ 014a
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् 014c
ततः सम्पूज्यमानः स विवेश भवनं शुभम् 015a
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् 015c
विवेश च स हृष्टात्मा चिरकालप्रवासकः 016a
कृत्वा नसुकरं कर्म दानवेष्विव वासवः 016c
उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा 017a
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् 017c
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा 018a
अभ्यवादयत प्रीतः पितरं मातरं तथा 018c
ताभ्यां च सम्परिष्वक्तः सान्त्वितश्च महाभुजः 019a
उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः 019c
स विश्रान्तो महातेजाः कृतपादावसेचनः 020a
कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् 020c