वैशम्पायन उवाच 001
स मित्रसहमासाद्य त्वभिज्ञानमयाचत 001a
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा 001c
सौदास उवाच 002
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः 002a
एतन्मे मतमाज्ञाय प्रयच्छ मणिकुण्डले 002c
वैशम्पायन उवाच 003
इत्युक्तस्तामुत्तङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् 003a
श्रुत्वा च सा ततः प्रादात्तस्मै ते मणिकुण्डले 003c
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् 004a
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव 004c
सौदास उवाच 005
प्रजा निसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह 005a
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः 005c
सोऽहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् 006a
गतिमन्यां न पश्यामि मदयन्तीसहायवान् 006c
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम 006e
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः 007a
शक्यं नृलोके संस्थातुं प्रेत्य वा सुखमेधितुम् 007c
तदिष्टे ते मयैवैते दत्ते स्वे मणिकुण्डले 008a
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्व मे 008c
उत्तङ्क उवाच 009
राजंस्तथेह कर्ताऽस्मि पुनरेष्यामि ते वशम् 009a
प्रश्नं तु कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परन्तप 009c
सौदास उवाच 010
ब्रूहि विप्र यथाकामं प्रतिवक्ताऽस्मि ते वचः 010a
छेत्ताऽस्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा 010c
उत्तङ्क उवाच 011
प्राहुर्वाक्सङ्गतं मित्रं धर्मनैपुण्यदर्शिनः 011a
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः 011c
स भवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव 012a
स मे बुद्धिं प्रयच्छस्व समां बुद्धिमतां वर 012c
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः 013a
भवत्सकाशमागन्तुं क्षमं मम न वेति वा 013c
सौदास उवाच 014
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम 014a
मत्समीपं द्विजश्रेष्ठ नाऽऽगन्तव्यं कथञ्चन 014c
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह 015a
आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् 015c
वैशम्पायन उवाच 016
इत्युक्तः स तदा राज्ञा क्षमं बुद्धिमता हितम् 016a
समनुज्ञाप्य राजानमहल्यां प्रति जग्मिवान् 016c
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियङ्करः 017a
जवेन महता प्रायाद्गौतमस्याऽऽश्रमं प्रति 017c
यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम् 018a
तथा ते कुण्डले बद्ध्वा तथा कृष्णाजिनेऽनयत् 018c
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् 019a
बिल्वं ददर्श कस्मिंश्चिदारुरोह क्षुधान्वितः 019c
शाखास्वासज्य तस्यैव कृष्णाजिनमरिन्दम 020a
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै 020c
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् 021a
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले 021c
ऐरावतकुलोत्पन्नः शीघ्रो भूत्वा तदा स वै 022a
विदश्याऽऽस्येन वल्मीकं विवेशाथ स कुण्डले 022c
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह 023a
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः 023c
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा 024a
क्रोधामर्षाभितप्ताङ्गस्ततो वै द्विजपुङ्गवः 024c
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा 025a
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमातुरा 025c
ततः खनत एवाथ विप्रर्षेर्धरणीतलम् 026a
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् 026c
रथेन हरियुक्तेन तं देशमुपजग्मिवान् 027a
वज्रपाणिर्महातेजा ददर्श च द्विजोत्तमम् 027c
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः 028a
उत्तङ्कमब्रवीत्तात नैतच्छक्यं त्वयेति वै 028c
इतो हि नागलोको वै योजनानि सहस्रशः 029a
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव 029c
उत्तङ्क उवाच 030
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया 030a
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम 030c
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा 031a
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह 031c
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धरा 032a
नागलोकस्य पन्थानमकरोज्जनमेजय 032c
स तेन मार्गेण तदा नागलोकं विवेश ह 033a
ददर्श नागलोकं च योजनानि सहस्रशः 033c
प्राकारनिचयैर्दिव्यैर्मणिमुक्ताभ्यलङ्कृतैः 034a
उपपन्नं महाभाग शातकुम्भमयैस्तथा 034c
वापीः स्फटिकसोपाना नदीश्च विमलोदकाः 035a
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् 035c
तस्य लोकस्य च द्वारं ददर्श स भृगूद्वहः 036a
पञ्चयोजनविस्तारमायतं शतयोजनम् 036c
नागलोकमुत्तङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा 037a
निराशश्चाभवत्तात कुण्डलाहरणे पुनः 037c
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः 038a
ताम्रास्यनेत्रः कौरव्य प्रज्वलन्निव तेजसा 038c
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे 039a
ऐरावतसुतेनेह तवानीते हि कुण्डले 039c
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन 040a
त्वयैतद्धि समाचीर्णं गौतमस्याऽऽश्रमे तदा 040c
उत्तङ्क उवाच 041
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति 041a
यन्मया चीर्णपूर्वं च श्रोतुमिच्छामि तद्ध्यहम् 041c
अश्व उवाच 042
गुरोर्गुरुं मां जानीहि ज्वलितं जातवेदसम् 042a
त्वया ह्यहं सदा वत्स गुरोरर्थेऽभिपूजितः 042c
सततं पूजितो विप्र शुचिना भृगुनन्दन 043a
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु मा चिरम् 043c
इत्युक्तः स तथाऽकार्षीदुत्तङ्कश्चित्रभानुना 044a
घृतार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया 044c
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत 045a
घनः प्रादुरभूद्धूमो नागलोकभयावहः 045c
तेन धूमेन सहसा वर्धमानेन भारत 046a
नागलोके महाराज न प्रज्ञायत किञ्चन 046c
हाहाकृतमभूत्सर्वमैरावतनिवेशनम् 047a
वासुकिप्रमुखानां च नागानां जनमेजय 047c
न प्रकाशन्त वेश्मानि धूमरुद्धानि भारत 048a
नीहारसंवृतानीव वनानि गिरयस्तथा 048c
ते धूमरक्तनयना वह्नितेजोभितापिताः 049a
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्यातितेजसः 049c
श्रुत्वा च निश्चयं तस्य महर्षेस्तिग्मतेजसः 050a
सम्भ्रान्तमनसः सर्वे पूजां चक्रुर्यथाविधि 050c
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः 051a
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति 051c
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च 052a
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते 052c
ततः सम्पूजितो नागैस्तत्रोत्तङ्कः प्रतापवान् 053a
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् 053c
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् 054a
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यै तदाऽनघ 054c
एवं महात्मना तेन त्रील्ँलोकाञ्जनमेजय 055a
परिक्रम्याऽऽहृते दिव्ये ततस्ते मणिकुण्डले 055c
एवम्प्रभावः स मुनिरुत्तङ्को भरतर्षभ 056a
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि 056c