वैशम्पायन उवाच 001
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् 001a
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् 001c
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् 002a
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः 002c
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् 003a
भक्षं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम 003c
उत्तङ्क उवाच 004
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् 004a
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः 004c
राजोवाच 005
षष्ठे काले ममाऽऽहारो विहितो द्विजसत्तम 005a
न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै 005c
उत्तङ्क उवाच 006
एवमस्तु महाराज समयः क्रियतां तु मे 006a
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् 006c
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम 007a
त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर 007c
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः 008a
दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह 008c
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम 008e
उपाकृत्य गुरोरर्थं त्वदायत्तमरिन्दम 009a
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् 009c
सत्यं ते प्रतिजानामि नात्र मिथ्याऽस्ति किञ्चन 010a
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा 010c
सौदास उवाच 011
यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः 011a
यदि चास्मि प्रतिग्राह्यः साम्प्रतं तद्ब्रवीहि मे 011c
उत्तङ्क उवाच 012
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ 012a
सोऽहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले 012c
सौदास उवाच 013
पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले 013a
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत 013c
उत्तङ्क उवाच 014
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् 014a
प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव 014c
वैशम्पायन उवाच 015
इत्युक्तस्त्वब्रवीद्राजा तमुत्तङ्कं पुनर्वचः 015a
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम 015c
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता 016a
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः 016c
उत्तङ्क उवाच 017
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर 017a
स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति 017c
सौदास उवाच 018
द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे 018a
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै 018c
उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ 019a
मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् 019c
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना 020a
प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय 020c
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ 021a
अभिज्ञानं तु किञ्चित्त्वं समानेतुमिहार्हसि 021c
इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महोरगाश्च 022a
तैस्तैरुपायैः परिहर्तुकामाश्छिद्रेषु नित्यं परितर्कयन्ति 022c
निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृषेयुः 023a
यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशं त्वा परिधर्षयेयुः 023c
छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ 024a
देवराक्षसनागानामप्रमत्तेन धार्यते 024c
स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम 025a
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते 025c
एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः 026a
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते 026c
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा 027a
अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः 027c
एवंविधे ममैते वै कुण्डले परमार्चिते 028a
त्रिषु लोकेषु विख्याते तदभिज्ञानमानय 028c