जनमेजय उवाच 001
उत्तङ्कः केन तपसा संयुक्तः सुमहातपाः 001a
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्णवे 001c
वैशम्पायन उवाच 002
उत्तङ्को महता युक्तस्तपसा जनमेजय 002a
गुरुभक्तः स तेजस्वी नान्यं कञ्चिदपूजयत् 002c
सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः 003a
औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत 003c
गौतमस्य तु शिष्याणां बहूनां जनमेजय 004a
उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा 004c
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा 005a
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् 005c
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः 006a
उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत 006c
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् 007a
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः 007c
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ 008a
उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् 008c
स तु भाराभिभूतात्मा काष्ठभारमरिन्दम 009a
निष्पिपेष क्षितौ राजन्परिश्रान्तो बुभुक्षितः 009c
तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा 010a
ततः काष्ठैः सह तदा पपात धरणीतले 010c
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भार्गवः 011a
दृष्ट्वा तां वयसोऽवस्थां रुरोदाऽऽर्तस्वरं तदा 011c
ततो गुरुसुता तस्य पद्मपत्रनिभेक्षणा 012a
जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना 012c
पितुर्नियोगाद्धर्मज्ञा शिरसावनता तदा 012e
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः 013a
न हि तानश्रुपातान्वै शक्ता धारयितुं मही 013c
गौतमस्त्वब्रवीद्विप्रमुत्तङ्कं प्रीतमानसः 014a
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः 014c
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि ते वचः 014e
उत्तङ्क उवाच 015
भवद्गतेन मनसा भवत्प्रियचिकीर्षया 015a
भवद्भक्तिगतेनेह भवद्भावानुगेन च 015c
जरेयं नावबुद्धा मे नाभिज्ञातं सुखं च मे 016a
शतवर्षोषितं हि त्वं न मामभ्यनुजानथाः 016c
भवता ह्यभ्यनुज्ञाताः शिष्याः प्रत्यवरा मया 017a
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः 017c
गौतम उवाच 018
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव 018a
व्यतिक्रामन्महान्कालो नावबुद्धो द्विजर्षभ 018c
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव 019a
अनुज्ञां गृह्य मत्तस्त्वं गृहान्गच्छस्व मा चिरम् 019c
उत्तङ्क उवाच 020
गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम 020a
तमुपाकृत्य गच्छेयमनुज्ञातस्त्वया विभो 020c
गौतम उवाच 021
दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते 021a
तव ह्याचरतो ब्रह्मंस्तुष्टोऽहं वै न संशयः 021c
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह 022a
युवा षोडशवर्षो हि यदद्य भविता भवान् 022c
ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज 023a
एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् 023c
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् 024a
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् 024c
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् 025a
प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि 025c
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् 026a
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः 026c
अहल्योवाच 027
परितुष्टाऽस्मि ते पुत्र नित्यं भगवता सह 027a
पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् 027c
वैशम्पायन उवाच 028
उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः 028a
आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव 028c
अहल्योवाच 029
सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले 029a
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् 029c
स तथेति प्रतिश्रुत्य जगाम जनमेजय 030a
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा 030c
स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः 031a
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले 031c
गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते 032a
इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै 032c
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् 033a
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति 033c
अहल्योवाच 034
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे 034a
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति 034c
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः 035a
उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह 035c